पृष्ठम्:यतिराजविजयम्.pdf/195

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नाटकलक्षणसंग्रहः एको रसोऽङ्गीकर्तव्यः वीरः शृङ्गार एव वा । अङ्गमन्ये रसाः सर्वे कुर्यान्निर्वहणेऽद्भुतम् ॥ दूराध्वानं वर्ध युद्ध राज्यदेशादिविश्वम् । संरोध भोजन स्नान सुरतें चानुलेपनम्। अम्बरग्रहणादीनि प्रत्यक्षाणि न निर्दिशेत् | नाधिकारिवधं कापि त्याज्यमाक्श्यकं न च । एकाहचरितैकार्थमित्थमासन्ननायकम् । पात्रैस्त्रिचतुरैङ्के तेषामन्तेऽस्य निर्गमः । पताकास्थानकान्यत्र बिन्दुरन्ते च बीजवत्। एवमङ्काः प्रकर्तव्याः प्रवेशादिपुरस्कृताः । पञ्चाङ्कमेतदवरं दशाङ्के नाटकं परम् । इति चान्ये विशेषा अन्यतो ज्ञेयाः | सन्धिपञ्चकनिरूपणम् सन्धिर्नाम – एकेन प्रयोजनेन अन्वितानां कथानामवान्तरप्रयोजनसम्बन्धः । ते च सन्धयः पश्च । तत्र आरम्भबीजसम्बन्धो मुखसन्धिः; प्रयत्नबिन्दुसम्बन्धः प्रतिमुखसन्धिः; प्राप्त्याशापताकयोस्सम्बन्धो गर्भसन्धिः ; नियताप्तिप्रकर्योः सम्बन्धो विमर्शसन्धिः ; फलागमकार्ययोस्सम्बन्धी निर्वहणसन्धि: { तत्र, पश्चावस्थाः-- औत्सुक्यमात्रमारम्भः फललाभाय भूयसे । प्रयत्नस्तु फलाप्राप्तौ व्यापारोऽतित्वरान्वितः । उपायापायशङ्काभ्यां प्राप्त्याशा कार्यसम्भवः । अपायाभावतः कार्यनिश्चयो नियताप्तिका । समग्रफलसम्पत्तिः फलागम उदाहृतः ।