पृष्ठम्:यतिराजविजयम्.pdf/192

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

R यतिराजविजयनाटकानुबन्धः काव्योपनिबद्धानां धीरोदात्तादीनां व्ययकानां अवस्थानुकार: चतुर्विधैरभिनयैस्तादात्म्यापतिः-नाट्यम् । तदेव नाट्यं दृश्यमानतया रूपमित्युच्यते, नीलादिरूपवत् । नटे रामाद्यवस्थारोपेण वर्तमानत्वात्-रूपकम् ।। रसानाश्रित्य वर्तमानं तदिदं रुपकं नाटकादिप्रमेदात् दशधा भिश्चते । यस्तु-नेतृ-रसास्तेषां भेदका भवन्ति । तत्र नाटकलक्षणमुक्तम् साङ्गेर्मुखप्रतिमुखगर्भमशौपसंहृतै: । पर्व प्रकृतिस्न्येषां आधिकारेककृतिवत् | कीरशृङ्गारयोरेकः प्रधानं यत्र वर्ण्यते । प्रल्यातनायकोकेत नाटक तदुदाहृतम। इति प्रतापरुद्रीये। नाटकार्दी विननिवारणार्थ पूर्वरङ्गः कर्तव्यः । तस्य प्रत्याहारादीनि द्वाविंशत्यङ्गानि | तन्मध्ये चावश्वे कर्तव्या नान्दी ! नान्दीलक्षणमपि अर्थतश्शब्दतो वापि मनाक्काव्यार्थसूचनम् । यलाठभिद्वदिशमिरटादशभिरेव वा । द्वाचिंशल्या रुँदैर्वापि सा नन्दी परिकीर्तिता # इति तत्रैवोक्तम्। । नान्द्यनन्तरं च प्रविष्टेन सूत्रधरेण रङ्गप्रसाधनपुरस्मरं भारतीवृत्त्याश्रयणेन श्लोकैः काव्यार्थः सूचनीयः । तथॆोक्तं दशरूपके--- रङ्ग प्रसाध्य मधुरैः श्लोकै; काव्यार्थसूचकैः ऋर्नु कश्चिदुपद्मय भारती वृतिमाश्रयेत्। इति । व्यापार:। (१) प्ररोचना (२) जीबी (३) प्रहसन (४) अमुसं च तदशानि । तत्र, प्रस्तुतार्थप्रशंसनेन ओतूणां प्रवृत्यु-दुखीकरणद मरोचना। आमुखम - प्रस्तावना !