पृष्ठम्:यतिराजविजयम्.pdf/191

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

{! श्र*रस्तु | अनुबन्धः ३ नाटकलक्षणसंग्रहः चतुर्विधैरभिनयैः सात्क्काङ्गिकपूर्वकैः । धीरोदात्ताद्यवस्थानुकृतिर्नाट्यं रसाश्रयम् | अभिव्यञ्जन् विभावानुभावादीन् नाटकाश्रयान् । उत्पादयन् सहृदये रसज्ञान निरन्तरम् । अनुकर्तृस्थितो योऽर्थः, अभिनयस्सोऽभिधीयते | आङ्गको वाचिकधैव सात्विकहार्यकाविति । स चतुर्था कृतस्तज्ज्ञैः, आङ्गिकोऽङ्गक्रियोच्यते | रागानुषझिं यद्वाक्यं नाट्ये तत्वाचिकं स्मृतम् । सत्वक्रिया सात्विकप्स्यातू, आहायों भूषणादिकम् । (संगीतचूडामणी - प्रतापरुद्रीये च) भावाश्रयं तु नृत्य स्थात् नृतं ताललयान्वितम् । आद्य पदार्थीभिनयो मार्ग, देशी तथा परम् || मधुरोद्धतभेदेन तद्द्वयं द्विविधं पुनः । लास्थताण्डवरूपेण नाटकायुपकारकम् । (दशरूपके) रसविषयं सात्विकबहुलं नाट्यम्, भावविषयमाङ्गिकबहुलं मार्गापरपर्यायं नृत्यम्, ताल- लय-उभयाश्रयं देश्यपरपर्यायं नृत्तमिति विवेकः । गीतादिपरिणामावच्छेदः कालविशेषः चञ्चत्पुष्यादिः ; ताळन्तराळवर्ती कालः,-- लयनालयः । अवस्थानुकृतिनाट्य, रूप दृश्यतयोच्यते । रूपकं तत्समारोपात्, दशधैव रसाश्रयम् ।