पृष्ठम्:यतिराजविजयम्.pdf/177

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ਏS ३५ स्वसत्तायाँ फ्रप्रकाश्य जडम् ; स्वेनैव प्रकाशमानमजडय् । जर्ड - पृथिव्यादि । अजडं - आत्मवस्तु । प्रलयकाले पृथिव्यादिकं तु सूक्ष्मप्रकृत्यवस्थं भवति ! अवत्मा तु देवादिशरीरविलयेन भेदानर्हेस्वरूपेण अवतिष्ठते । तदुभयम्, परमात्मशरीरतया तस्मिन् प्रलीयते । सद्वक्शेपः - तदुभयशरीरः परमात्मा, सृष्टिकले स्वेच्छया ' बहु स्या ' मिति संकल्पयति । तदिदमुक्त सत्ताशयेति । तत्र बहुभवनसंकल्पविशिष्टवेषेण निमित्तकारणम् , सूक्ष्मचिदचिद्विशिष्टवेषेण उपादानकारणं च ब्रह्मैव भवति । बहुप्रकारित्वेऽपि प्रकारगताः सर्वे दोषाः प्रकारि ब्रह्म न स्पृशन्ति ; यथा शरीरगता बाल्ययैौवनाद्यवस्थाः शरीरिणमात्मानम् । तदुक्तं - न तद्दोपेणेति । तत्तद्धटादिपदार्थशब्दानां, धियां च, ततत्पदार्थविशेप्ये परमात्मनि विश्रान्तिभैवति : यथा, देवमनुष्यादिशब्दा देवादिशरीरविशेष्ये आत्मनि विश्राम्यन्ति । यथावा, शुकृपट इत्यात्र शुक्रुपदं तद्रिशेप्ये पटे; देवादिभूतपदार्थानामाश्रयभूतात्माद्यपृथक्सिद्धत्वात् । तदुक्तं — तत्तच्छब्दधियामिति । अयमेव सर्वश्रुतीनां अकुतोभयः पन्थाः । तथा हि – “' क्षरं प्रधानममृताक्षरं हरः ; क्षरात्मानावीशते देव एक: , ‘* भोक्ता भोग्यं प्रेरितारं च मत्वा जुष्टस्ततस्तेन अमृतत्वमेति'इत्यादि भेदश्रुतीनां प्रधान - पुरुष - ईश्वराणां स्वीकारादविरोधः ।। ** सर्वै खन्विदं ब्रह्म ?' इत्याद्यभेदश्रुतेः सर्वस्य ब्रह्मात्मकत्वम्वीकारात्, ऐक्यश्रुतीनामर्थवत्वम् । * यस्यात्मा शरीरं, यस्य पृथिवी शरं रम् ?' इति शरीरात्मभावेन तञ्चैक्यमिति श्रुत्यर्थस्वीकारेण येन सुपथेल्युक्तम् । युपर्थत्यनेन - “ ब्रह्म एकमेव सत्यम्, अन्यन्मिथ्येनि पक्षस्य, पक्षान्तराणां च दोष सूचितः । जीवस्वरूपं शोधयति - देहाक्षादीति । अक्षम् - इन्द्रियम् । अदिशब्देन आत्मनः प्राणसंविदां संग्रहः । तदुक्तम्' - देहेन्द्रियमन प्राणधीभ्योऽन्योऽनन्यसाधनः । नित्यो व्यापी प्रक्षेित्रमात्मा भिन्नः स्वतस्सुखी ।। इति | 1. सिद्धित्रये, चित् :करणे ।