पृष्ठम्:यतिराजविजयम्.pdf/176

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

3 यतिराजविजयव्याख्या रत्रदीपिका मिति भावः । तदेव वैषम्यमाह-परब्रह्मेति । विमलेति हेयप्रत्यनीकत्वमुक्तम् । सुखसंवि६िति - कल्याणैकतानत्वम् ।। ** ते ये शतमिन्द्रस्यानन्दाः । स एको बृहस्पतेरानन्दः ' । अत्र बृहम्पतिः . पशुपतिः, ** बार्हताः पशवः ?' इति श्रुतेः बृहतां - इन्द्रादीनां पतिरिति वा : इन्द्रपुरोहितस्य तदधिकतरैश्वर्यानुपपत्तः । अन्यथा भूतप्रामाणिकात्मार्थनामङ्गीकरे दंषान्तरमाह-भूर्तरित। तन्मयम्पृथिव्यादिभूतमयम् ! भूतैः ~– अन्नपानादिश्रुपैः देहेन्द्रियादिविलक्षणैः ! स्वान्मनि । अयमपि कश्चिदिति -- प्रारब्धवाक्यार्थशेषं पूरयति - अपरस्त्विति । कृत्स्नवेदान्तविषयभूने ' ब्रह्मविदामंति परम् ' इति वाक्यान्वितब्राह्मणार्थमाह - ध्यायन्नितेि । अजडं - ज्ञानरूपम् ।। ** सत्यं ज्ञानमनन्तं ब्रह्म ' ', ** यो वेद इत्यादिकं वा । तत्र, अनन्तपदेन नारायण इति, व्यक्तम् । तदुच्यते । स एव हि त्रिविधपरिच्छेदरहितत्वात् अनन्तः प्रसिद्धः ।। ** हार्दानुगृहीतः शताधिकया ना ङचेतिं सृत्रम् ।। ** तयोर्ध्वमायन्नमृतत्वमेति ' इति श्रुतिं च स्मारयति - निष्क्रम्येति । माया - मले कर्मवासना ! खर्य चित् - ज्ञानैकमय:। खगट्र - अकर्मवश्यत्वात् स्वतन्त्रः । परमात्मपारतन्ध्र्यमपि मुक्तम्य सङ्कल्पयत्तमिनि न स्वातन्त्र्यविरोधमावहति । विपश्रिता - सर्वज्ञेन । मूलमत्रार्थविदेव तद्विक्रणरूपवेदार्थ वेतांत्याह - मूलमन्वेति : भगवती लीला - तदवधेयानात्मन , कुलट्या स्त्रीपुरुषादिविकृतिमत्या प्रकृत्या संयोज्य, तद्वश्यतया तन्मयानामात्मनां परस्परप्रणयपरिहायैरीश्वरं स्ववशयति; तथापि, स दयावश्य देवः--परिश्रान्तानात्मनो विलोक्य लीलामवधूय रक्षितुं समर्थोऽपि, केवलं हेतुपरायां लीलयां दक्षिण्यादेव स्वाभिमुख्यलक्षणे यत्किख्रिसृष्कृतमिति व्यपर्देिश्य, प्राप्तुः पुरुषम्य विगुणं निगलं छिनत्तीत्याह -- प्रगल्भेति । उक्तमुपलालयति - क्रीडििन । म्पष्टमन्यत् । यतिराजस्य अध्यवसायवैभवं विलोक्य तस्याश्रमधर्मभूतं सर्वाभयप्रदानं मोक्षदानपर्यवसायि स्यादिति निश्चिनीति - कर्मव्याजेति ।