पृष्ठम्:यतिराजविजयम्.pdf/170

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ーグ यतिराज विजयठयाख्या रत्नदीपिका सर्वज्ञशब्दः बैीद्धशङ्करवाचकः । उप • समीपे, स्थित्वा, स्वयं धर्ममन्यत्र दधतीत्युपाधयः - जपाकुसुमादयः । विश्वमुपोः - विश्वचोरयोः । पराङ्कुशोऽपि कञ्चिद्विशिष्टाद्वैतमाह: - तत्स्वाभिमतद्वैतं मत्वा सान्त्वयति । मुकुन्दाद्वैतें प्रमाणविरुद्धमियाह - केना:शाँति । न केनाचिदृष्ट इत्यर्थः । अन्यतिष्ठतु,कः, त्वयैव दृष्टः ? इत्युपालभते । स्गाट् - अकर्मवश्यः ! पुण्ड्रदेशेषु कश्चिदसुरो, वायुदेवोऽहमिति कृष्णेन स्पर्धा कृतवान्, सुदर्शनेन काशीं दश्ष्वा निदृत इति - पुराणे । जितकाशिना- जयशीलेन, सुदर्शनावतारेण यतिराजेन। अन्यत्र, जिनकाशीपुरेण चक्रेण। उभयोस्साम्यमाह - विज्ञानमावयोरिति । रामानुजे - यतिराजें । लब्धासिके - लब्धप्रतिष्ठे। मायविलासिनी - अविद्यति यावत् । अनासिका - अप्रतिष्ठा । अर्थान्तरं च स्फुरति - रामानुजे - लक्ष्मणे, लब्धसिके - गृहीतखड्रे, मायाक्लिासिनी - शूर्पणखा; मिथ्यादृक् - राजानमभिकाक्षन्ती, अनासिका - नासिकारहिता : कर्थ न स्यात् - इतेि । विषशेपः - शत्रुशेषः । तदङ्ग - व्यकरणशिक्षादि। श्लोकस्तु स्वैनैव व्याख्यातः । महामन्त्रीश्वरति - सोल्लुण्ठम् । ' निप्कल निष्किर्य शान्तमू' इति ब्रह्मविषया अविकारश्रुतिः । “ नित्यो नित्यानाम् ” इत्यादिः जीवनित्यत्ववादिनी । यतिराजी विद्यासम्बन्धनिमित्र्त यादवप्रकाशमनुगृह्म, त्रिदण्डादिक अनुगृहीतवानिति ऐतिह्यम् ! तदनुस्मारयति - रामानुजस्ते शरणमिति । तद्विषयवासिभिः - ब्रह्मर्निष्ठैः । परां कोटि - उन्नतं फदम् । त्रिदण्डधारणेन मत्समानधर्मा । मिथ्यादृष्टिः - जीवपैरैक्यमतिः । शिवैक्यम् - इति । भास्करसंन्यासे अष्टादशयतिलिङ्गानामुपलक्षणम्--