पृष्ठम्:यतिराजविजयम्.pdf/168

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६ यति राजविजय व्याख्या रक्नदीपिका मायावाद: स्वती निर्विशेषस्यापि ब्रह्मणो अविद्याकल्पितविशेषै: सर्व सम्भवतीनि परिहरति-अस्ति ग्यलु असाकमिति । सुतर्कः तन्मतमुपालभते -- आरोपयितुमिति । सतयु पूर्वपक्षवाक्येषु प्रत्येक दोषान्तरमाह - कि चेति। निर्विशेषवस्तुनि कात्स्येंन स्वयंप्रकाशे न अभ्यासः सम्भवति । म्वरुपथ्यतिरेकेण बांधकधर्मानभ्युपगमात् । तत एवाध्यासे सति निवृत्तिश्च स्यात् । द्वितीयं दृषणं तु स्पष्टम् । तृतीयं दृषयनेि - तत एवेति । तिरोधानाभावादेव संसारमोक्षैौ न स्यातामिति भावः । चतुर्थे दृषयति - न ज्ञानमिति । इदमहं जानामीत्यत्र ज्ञातृज्ञेययोरपि ज्ञानेन सहैव सिद्धत्वात् । तथोर्वाधे ज्ञानबाधोऽपि सुवचः । पञ्चमं पदं दृषयति-मतिरिति - प्रमर्ध्निः - प्रमाणम् । पदं - वेिषयः ! यत्र प्रमाणं नास्ति, तन्नरविषाणमिव न सता निरुपाख्यम् । षष्ठं पदं दृषयनेि - त्वयापि निर्वेिशपमिति | निर्विशेषशब्देन ब्रह्म विशेष्यते । सप्तमै दृषयनिसत्यं स्थादिनि ! त्वमपि, *ब्रह्मैव सत्। : अन्यन्मि'थ्धेनि प्रमाणबलेनैव ब्रवीपि । तथैव प्रमाणसिद्धं जगदपि सत्यमेव ! यदि प्रमाणप्रमेयव्यवस्थां दृषयसि, तदा स्वव्याघातः ; DBDDD DDBD DDS DDD DDD SS S DDDDDDDDDDDD S पुनश्च प्रपञ्चसत्यत्वं साधयति - प्रत्यक्षेति । दृश्यप्रपञ्चबाधः किं प्रमाणेन ; उत, येन केनापि : नाद्यः : - तत्र प्रमाणप्रमेयादिभेदम्य सत्यत्वम्य च त्वया अवश्याश्रयणीयत्वात् ! नापि द्वितीयः -- पामरैरपि भवत्पक्षप्रतिक्षेपस्य येन केनापि अप्रमाणभृतेन कर्तु शवयत्वात इत्याह - बाधस्तस्येति । परस्परं भिन्न चिदचिदात्मक जगन ब्रह्मात्मकम - ब्रह्मान्तर्यामकम् । ' सर्व खल्विद ब्रह्म 'इल्यांद वाक्य ब्रह्मात्मकतया प्रपत्रैक्चपरम् ! ' प्रधानक्षेत्रज्ञपतिर्गुणेशः ' इत्यादि द्वैतवाक्यम् । ब्रह्मात्मकप्रधान - क्षेत्रज्ञादिपदार्थनानात्वपरम । निर्गुणवाक्यं - हेयगुणनषेधपरम् । ' यस्सर्वज्ञस्सर्ववित ' इत्यादिवाक्र्य ब्रह्मणः क्ष्याणगुणपरम् । एवं ईदृशविरुद्धगिरां भिन्नविषयत्वात परम्परबाधो न शङ्कनीयः ; तथापि