पृष्ठम्:यतिराजविजयम्.pdf/158

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

s यतिराजविजय व्याख्या रत्नदीपिका ब्रह्मायतिरिक्तप्रपञ्चसाधकः स्वानुकूलवादाह - महागजमिति । ब्रह्माध्यतिरिक्त- सतेलुपाध्यड्रीकारादाह-तत्वमपि कदाचिदिति ॥ चिदचित्प्रपश्वसद्धावस्य अभिमतत्वादाह - तमेवेति । स्वानिमतत्वादाह - प्रमाण पन्तीति । अन्वारुह्य अनवस्थां दर्शयति प्रमाणसिद्वैौ प्रमाणापेक्षायां अनवस्था । तद पेक्षायां प्रमाणवत् प्रपञ्चोऽपि तथ्यः स्यादिति, न प्रमाणमनङ्गीकरणीयमिति श्लेकार्थः । "* घटमहं जानामि ' इत्यत्र प्रमातृप्रमेयवत् प्रमाणभूतं ज्ञानं स्वेनैव म्वात्मानमपि प्रकाशयतीतेि भावः । इदमई वेनति, संविद: स्वतसिद्ध नानवस्था सम्भवति । संविदेव हि नात् तवापि प्रमाणमित्यर्थः । या खलु तदिति पाटे, या संवित् प्रमाणम्, सा संवित् स्वतस्सिद्धेत्यर्थः । तत्त्वं च - प्रमाणत्वं च । ज्ञानस्य प्रामाण्यं स्वतः, अप्रामाण्यं परतः -- इति मीमांसका । प्रामाण्या प्रामाण्ये परतः - इति तार्किकाः । पक्षद्वयेऽपि न विरोधः इत्याह – स्वतः स्वर्थेति । सोल्लुष्ठर्ने तु - मर्मस्पृकू । 'मायावादमसच्छास्त्र प्रच्छन्न बैौद्धमुच्यते" इति पुराणवचर्न हृदि निधायाह -- सर्वलोकशान्त्रेति । यत्किञ्चिदेवासीति ग्राम्यपरिहासः ! तदभिप्रायं जानन्नाहभो जाल्मेति । जाल्मः - कुहकः । अन्यथा -- असर्वज्ञत्वम् । असत्यमपि सत्यवत् प्रतिभासमानं व्यावहारिकम् , तद्दुषयति - मिथ्येति । न हि मिथ्येति विदितो रज्जुसर्पः त्रासं जनयति । न ह्यसत्यमर्थक्रियाकारि । अर्थक्रियाकारित्वात् जगत् सत्यमिति भावः । राज्ञः---शास्त्रस्य। मन्त्रिकुलस्य - तद्वयाख्यातृवर्गस्य। परम्परवर्गं तद्राष्ट्रं - तस्य शास्त्रस्य प्रमेयम्। सुर्ख - अध्याकुलन्। अन्यथा एतत्प्रमेये नश्यति । अहिभयं - परस्परविरोधः । अत्र राजनीतिः दृष्टान्तः । भृगुनारदप्रभृतयो ब्रह्मविदः - अध्यात्मविदः । मद्दारण्यं - अरण्यानी ।