पृष्ठम्:यतिराजविजयम्.pdf/13

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

6 यतिराजविजयम् - श्रीवरदाचार्याश्च । एवं स्थिते अतिप्रैौढसन्दर्भ अतिविपुलें तन्महानाटकमितेि समालोच्य, सायन्तनसमयसमुम्लासितमालतीमकरन्दपरिमलमुचि सहृदयजनहृदयानन्दसिरावेधिनि सारस्वतपरमसीम्नि नाटकमहिप्ति समधिष्ठितपदः, श्रीभगवद्रामानुमुने: पूर्वाश्रमभगिनेयस्य श्रीवत्सकुलचूडामणे: अखिलपरदर्शनमदकर्शनस्य सुदर्शनापरनामधेयस्य वरदविष्ण्वार्यस्य पैत्राणां वेदान्तकूटस्थानां सर्वत प्रथित - श्रीमतां वरदाचार्याणां पञ्चमः, प्रश्चविदितवैदुष्यः कांधीपुरीवात्स्तब्यः श्रीघटिका शतसुदर्शनाचार्यसूनुः श्रीवेदान्ताचार्य - रामानुजाचार्ययोर्दशनस्थापनाचार्ययोः प्रसादभूमिर्वरदाचायैनाम महाकविः - वेदान्तविलासापरनामधेयं इदं श्रीयतिराजविजयनाटकं मृदुमधुरमङ्गलमञ्जुलेन सन्दर्भण विरचयामास । अत्रापि प्रबोधचन्द्रोदय इव षडेव अंकाः समुलुसन्ति ! चार्वाक - बौद्धदिसहायेन मायावादेन मुख्यमंत्रिणा मिथ्यादृष्टिवेश्यासंसर्गेण प्रतारित वेदमैौलं (वेदान्ते) राजान, तत्सखायेन भगवता श्र मद्यामुनाचार्यण प्रचोदितः श्रीमान् यतिराज: श्रीभगवद्रा नुिजमुनिः, तान् सर्वानपि निर्जित्य प्रतिपक्षिण: सुनी सहचारणों सुमति विष्णुभतिस्वरूपां पट्टमहिषीं राज्ञा च सङ्गमयन् , तं च परब्रह्मानुभवास्वदानन्दैकसाम्राज्ये अभिषिञ्चति - इत्यलैकिकेऽस्मिः न्नाटकेऽयं वर्णयति कविसार्वभौमः वेदमैळिः-राजा। सुमतिः (विष्णुभक्तिः) - देवी । मायावादः - महामन्त्री; भास्कयादवादयश्च - अन्ये मन्त्रिण। चार्वाक - बौद्धादयः - मायावादसहायाः। मिथ्यादृष्टिः - वेश्या । तस्याः संसर्गप्रलोभेन स्वक्शमानीय वेदान्तं राजानं मोहयति मायावादः । तमिमं वृत्तान्तमभिज्ञाय दुर्मन्त्रीन् शासयितुं, तं वेदमैलिं समुद्धर्तुं च श्रीमन्तो भगवद्यामुनमुनयः श्रीमद्रामानुजमुर्नि नियोजयामायुः । निस्सङ्गोऽपि स यरािजेो, दाशरथि-वात्स्यसुदर्शनाभ्यां वैतालिकवेषधारिभ्यां प्रबोधिते राजनि, कुदृष्टिमन्त्रिमतनिरसनेन तत्त्वस्ल्यापनेन च वेदान्तं संरक्षयामास । सदूहः - सेनानायकः ; इतिहासपुराणवेदविचारादय: तत्सहबाः !