पृष्ठम्:यतिराजविजयम्.pdf/126

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

as यतिराजविजक-नाटकम् यस्ति -देव ! प्रसादः क्रियताम् । राजा-मायावादवाक्याद्विदितमस्य दौरात्स्यम् । यतेि -देव! विश्वमृषावादिवचने किं सत्यमपि किञ्चिदन्वेषयसि ; स्ववचनमपि मृषेति हि स प्रलपति । इतिहासपुराणक्शवर्ती देवस्य स भूय एव । राजा -(सुनीतिमुखै पश्यति) सुनी -देव ! मूलमन्त्रिवचनं प्रमाणयितव्यमेव । यति -पञ्चमो वेदः प्रमाणयितव्यः । राजा -यथा रोचते अमात्याय । (कच्चुकी निष्क्रान्त:) (ततः प्रविशति भारतं पुराणैः च पुरस्कृत्य वेदविचारः) वेदविचारः--(सभयम्) भारत ! दुष्टमन्त्रिवचनजनितविरोधं महाराजे कथं पश्यामि ? इतिहास ---तत्तिष्ठतु, विधिप्रियोऽपि 'किमसत्सुहृदं 'परमार्थवादमप्रमाणीकुर्वन् राजान प्रकोपयसि ? मन्त्रब्राह्मणदेवतापरतया मान्यो विधेरप्यर्य तस्मिंस्तद्गुणवर्णनैः प्रवणयत्यत्यद्भुतैर्यो जनान् । दूरस्थेऽपि विधावनन्यसुलभैरर्थैरलं प्रीणयन् राजार्न विधिनिर्विशेषमधुना सम्माननीयस्वया {! 1. ' किमस्मत्सुहृद' मिल्यारभ्य, ' तत एव लभन्ते ' इत्येतत्पयन्तस्य स्थाने, अर्थ प: कचिदुपलभ्यते - किम्महामन्त्रिणमर्थवादमर्थरहितं कृत्वा प्रकोपयसि ? अर्थप्रधान राजानमपूर्वीर्थन तोषयन। मन्त्री मानयितव्योऽयं विधिवद्देवतापरः ॥} अमीन्द्रादिदेवतामुखेन प्रीतस्सवैशेषी सर्वान्तरात्मा देतामुखेन यज्ञदिफल टदाई । तद्भावयं प्रमाणीकृत्य --- इति ! ४, देवतावैभवपरमार्थवादमू-पI०