पृष्ठम्:यतिराजविजयम्.pdf/119

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमोऽङ्कः ७३ 哥r喀一 तर्कन्यायतरङ्गलहितजगद्दर्वादिगर्वानल: सर्वान्नायतदङ्गमङ्गलमहामाणिक्यदीपङ्कुरः । मादृक्षो यदि कश्चिदस्ति सचिवः श्रीवेदमैौळेरयं प्रत्युद्भच्छतु तन्मदं शमयितुं प्राप्सो यतिर्यादवः । (सर्वे सादरं पश्यन्ति) याद - वत्स, वादिसिंह ! पठ्यतां वेदान्तविषयम्संग्रहश्लोकः । शिष्यः-- ब्रह्मैकं तत्त्वमेतद्बहुविधचिदचित्तन्नियन्तृप्रभेदात् तत्तच्छक्तिस्वरूपं परिणमति यथा वारिफेनादिरूपम् । 'सत्वं सर्वानुवृति मणिपु परिमलन्यायतोऽचित्पदार्थ चैतन्यं त्वप्रकाशं श्रुतिरिह विषये स्थापित यादवेन ॥ याद -अस्यायमर्थ:---सच्चिदानन्दमयं ब्रह्मैव तत्त्वम्; तच्च तत्तच्छक्तिमय भोस्कृभोग्यनियन्तृरूपेण परिणमतः यथा फेनबुहृदतरंगरूपेण वारि: कारणभूतं ब्रह्म, गुणः चैतन्यं रत्नगन्धन्यायेन कचिदचिद्वस्तुनि विद्यमानमपि न प्रकाशते ; कारणात्मना सर्वमभिन्नम्, कार्यात्मना च सर्वै भिन्नम्, यथा घटशरावादि। भेदाभेद्क्षुतयश्च असिन्थें व्यवस्थाप्यन्ते। सदृ- (विहस्य साट्टहासम ) किमेवं महाराजविषय, मन्त्रीश्वर ! विप्लावयसि । निर्विकारश्रुतेर्बह्म सविकारं न मृण्यति । जीवनित्यत्ववादोऽपि तत्कार्यत्वे प्रकुप्यति | एवमन्यानप्यर्थान् उन्मूलयन् महाराजसमीपे न स्थातुमहैसि । याद -(स्वनीतिविपूर्व परामृशन्। अधोमुखस्तिष्ठति) परा -देव ! राजद्रोहे महति को दण्ड: ? राजा -(स्मितै कृत्वा ) यतिदण्र्ड यतिराज एव जानाति । यतेि -(यामुर्न पश्यति) ! तत्त्वम् अ-पt० O