पृष्ठम्:यतिराजविजयम्.pdf/120

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

\3ზ8 यतिराजविजयमू-नाटकम् यामु -शमदमाद्यात्मगुणोपेतस्यापि दुष्टस्य परिव्राजो देशाद्विप्रवासगन्तरेण नान्यो दण्ड; । याद --(सप्रश्रयम) देवपादसेवापरित्यागात् प्राणपरित्याग एव सुलभ इव प्रतिभाति | राजा-तहिँ रामानुजस्ते शरणमस्तु । यदि -( यतिराजस्य पादयोः पतति ) यति - (समन्तादवलोक्य) सदोषी वोऽप्यदोषो वा मामेष शरण गतः । भवद्धिर्भगक्क्लैर्महद्भिरनुगृह्यतामू । राजा -( सहर्षम्) न केवलमेष एव ; कृतसकलकिल्बिषोऽपि यो भवदभिमान विषयः, सोऽसद्विषयवासिभिस्सर्वैश्शिरसा माल्यवद्धार्येताम् । यामु-तथैवास्तु । (अाकाशे पुष्पवृष्टिः, दुन्दुभिध्वनिश्च ।) यति -महानय प्रसादो देवस्य । परा -भो मस्करिन् ! भगवद्रामानुजपरिग्रहेणैव परां कोटिमारूढोऽसि, तद्भग्यतां नियमनिर्वर्तनाय । यदि ----( शिष्येण सह निष्क्रान्तः ) (ततः प्रविशति भास्करः, शिष्याश्च ) भास्क - (सहर्षम) मायावादे निरम्ते, मैनद्राजकुलम ; रामानुजस्तु मत्समानधर्मा मयि नेत्यन्तमपराध्यति । सुनी -, पुरोऽवलोक्य ) यज्ञोपवीती काषायी त्रिदण्डजिनवान् शिखी । सशिक्यासनमृत्पात्रैः शिष्यैरभ्येति मस्करी | राजा- (विमृश्य) देवि! किमनै प्रत्यभिजानसि ?