पृष्ठम्:यतिराजविजयम्.pdf/116

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

VS is यतिराजविजयमू-नाटकम् पराङ्कशः -देव ! सपरिवारो विजयस्व। राजा--(सादरं पश्यति) परा -(परिवृष्य सामर्ष · मायावादं प्रति राजानमङ्गुल्या निर्दिशन्) दृश्यं निन्दति दर्शयन्नपि परं ज्योतिर्जगत्कारणम् मोक्षोपायमुदीरयन्नपि मृषा संसारमोक्षाविति । ब्रूते भेदपरायणोऽपि तमपि द्वेष्टि त्वदायत्तधीः, (विहस्य) किमतः परं कौटिल्यं दीप्कुल्यम् ; मायावाद! वदत्यर्लींकमेिति च 'प्रत्यायेितोऽयं त्वथा ॥ तदेवं लवणकर इव कर्पूरं सर्वजगत्प्रमाणभूतें राजनमयथाकुर्वन् किं फल प्रामीषि ? सुतर्कः -(सोल्लुण्ठम् ) सामन्तभद्रपीठं प्राप्तम् । सुनी ~-तथागतोऽयं सर्वार्थसिद्ध एव । माया-(विमृश्य, सक्रीधम) किंमहं सुमत एव ? सुनी -(विहस्य) दुर्गतश्ध । सुत - सर्वज्ञस्त्वमेव तन्निरूपय । शङ्क - भगवन्! विरम्यताम् । अतिप्रसंगस्तिष्ठतु । सुनी -( विहृस्य ) एवमनामन्त्रयन् शङ्करः कथं सर्वज्ञः स्यात् । यामु -काममन्यथा करोतु । मन्त्रिषु न्यस्तभारोऽयं न तद्दोषेण दुष्यति । स्फटिकः किं प्रदुष्येत वर्णभेदैरुपाधिजैः ॥ यति “-भगवन् पराङ्कुश ! निरङ्कुशवृत्तयोऽमी निरस्यन्ताम् । परा -कः पुनरेतयोर्दण्डः । 1. प्रख्यापितोऽक्षू-पl० --------