पृष्ठम्:यतिराजविजयम्.pdf/114

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

áく यर्तिराजविजयमू-नाटकम् माया-(विहरूय) किमलानुपपन्नमू ! अस्ति खल्वस्माकमविद्याकामधेनुः । सदू -( विहस्य ) कष्टं भोः, आरोपयितुमेवास्य धर्मान् बत निराकरोः । ब्रह्मणि ज्ञानशक्तधादिगुणान् स्वाभाविकानपि ॥ किञ्च, नाध्यासः स्वप्रकाशे तिमिरमिव रवैौ ज्ञानबाध्या च माया न ब्रह्मज्ञानरूपं स्थगयति न ततो बन्धमोक्षौ च। तस्य। न ज्ञानं ज्ञेयहीन न सदमतिपदं निर्विशेर्ष न किचित् सत्यं 'स्यान्मानसिद्धं जगदपि न यदि स्वीक्तिबाधादयस्स्युः ॥ किञ्च, प्रत्यक्षप्रभृतिप्रमाणविदितं सत्यं च भिन्नं जगत् बाधस्तस्य न केनचित् स्वविहतेर्ब्रह्मात्मकं तज्जगत् । द्वैताद्वैतगिरो विभिन्नविषया बाधाय नाले मिथः पधालम्भनिषेधवाक्यव दतो विश्वापलापः कुतः । रा -(सुनीतिमुखें पश्यति)। सुनी -सप्तसु पदेषु सम्यगुनोतो दोषः । सुम -(विहस्य) मायावादसासपदीनमपि समांसमेतेन देवस्य । माया--{ 'जनान्तिकम्) अयि वत्स, दुरात्मा सम्यगुत्तरं 'ददाति, न हि विधि बाधो निषेधेन ? शङ्क -(सविषादम्) किं कुर्मः ; संप्रति धाष्टिर्यमेव नश्शरणमस्तु, जातयः प्रयुज्यन्तामू ! 1 R時昭頼団阿kg@H-Ti。 2. अपवार्य -पा० 3. दिशति •०