पृष्ठम्:यतिराजविजयम्.pdf/113

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमोऽङ्कः शङ्ग -दुर्विदग्ध! कचाट! वटी! किं विकत्थसे ।। (सक्रोधर्सरम्भम्) सर्वेऽपैि मा पश्यन्तु । ब्रह्माणः कति' वा न सन्ति जगतीनिर्माणपौनःपुनी पारीणाः परमाणवोऽपि कति वा लेोकत्रयारम्भकाः । ततत्तत्त्वचखण्डिषा परिपतन्मद्युक्तिकालानल'- ज्वालात्क्षणभक्षितस्य जगतो भस्मापि न स्मर्यते ॥ सुनी - ( कर्णौ पिधाय )दुस्सहान्यमूनि वाक्यानि, स्फुलिङ्गमभिवर्षन्ति । रामा -(विहस्य) वाङमात्रेणापि वराकस्तुप्यतु । सदू - ( सक्रोधं पश्यन्) मयि स्थितेऽपि महापुरुषसन्निधौ किं प्रलपसि ? ।। माया-(ससंरम्भम्) ब्रह्मास्त्रमेकमादाय समेितै विहरन्नहभू । खण्डयामि जगत्सर्वै पाण्डित्यं मम दृश्यताम् ॥ यस्मिन्नध्यस्तमेतरृिभुवनमस्त्रिलं यच्च पश्यत्यविद्या मुग्धं स्वाध्यस्तमेतद्यदपि निजवपुर्वीक्षणे मुच्यते यत् । ज्ञानं ज्ञेयादिहीन भवति यदपद संविदां निर्विशेर्ष सत्यं तद्ब्रह्म मिथ्या, तदितरदखिले कोऽन्यथा वक्तुमीशः | ( इति भुजमास्फोटयति ) यति -(सस्मित सदृहमुखें पश्यति) सदू -(ससंरम्भ भुजमास्फीटयन्,) अहमीशोऽसि । आकारभेदसम्पाद्यमेत दखिले निर्विशेषवस्तुवादिनस्ते न सम्भवति । सुम -(सहर्षम) सम्यगेकोत्तरेगैव सातार्थानच्छिनतू सुधीः । प्रत्येकं सालभेदाय न रामस्सन्दधे शरान् ॥ Ww W l, कति नाम सन्ति -पा, 2, मथुक्तिवज्रनलज्वला -पा०