पृष्ठम्:यतिराजविजयम्.pdf/11

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

4 प्रबोधचन्द्रोदयः - तस्य वैशिष्टथं एवं प्रवृतेषु अध्यामिकनाटकेषु श्रीकृष्णमिश्रयप्रणीतं प्रबोधचन्द्रेदियं नाम नाटकमू प्रधानस्थानमलङ्करति | तत्रभवान् महाप्राज्ञः वश्यवाक् च श्रीकृष्णमिश्रयतिः, अत्यद्भुतावहेण सन्दर्भक्रमेण प्रसन्नगम्भीरं नाटकमर्द, इतरमतनिरसनपूर्वकं विष्णुपारम्यवाद्यतिसिद्धान्तव्यवस्थापनाय विरचयामास; आक्र्जयामास च सेर्वषा दार्शनिकानां दृष्ट स्वस्वमतस्थापनार्थ एतादृशललितग्रन्थविरचनाय । एवंविध - आध्यात्मिक - परिपकनाटकनिर्माणस्य मार्गदर्शी श्रीमान् कृष्णमिश्रयर्तिरेवेति अतिरोहितं विमर्शकानाम् ।

    • अत्र नायको विवेकः, देव्यैौ च मतिः, उपनिषच्च । वस्तुविचारः - सेनानायकः । तस्य सहायाः-- शान्ति - करुणा - श्रद्धा - मैत्री - क्षमा - सन्तोष-वैराग्य - निधिध्यासनादयः । प्रतिनायकः - महामोहः ! तस्य सहचारिणी - मिथ्यादृष्टिः । सेनानायकः - कामः; तस्य सहायाः - क्रोध - लोभ - दम्भ - अहंकारादयः । कामस्य रतिः, क्रोधस्य हिंसा, लोभस्य तृणा चेति पत्न्यः । चार्वाक - क्षुि - क्षपणक - कपालिकादयश्ध अस्य परिपोषकाः । कामदीनां विवेकादीनां, च पिता मनः ।

महाप्रभावशालिन्या विष्णुभतेरनुग्रहे सुसम्पन्ने, वस्तुविचारण कामे निहते, क्षमया च क्रोध - पारुष्य - हिंसादिषु, निहतेषु सन्तोषेण च लोभ - तृणा - दैन्यानूतपैशुन्यवाक्स्तेयासमरिग्रहादिषु, अनसूयया च मात्सर्ये, परोत्कर्षभावनया च मदे निहते, महामोहः योगोपसर्गैः सह निलीनः विवेकस्य महाराजस्य विजयः सुसम्पन्नः । विष्णुभक्तिप्रचोदितया देव्या सरस्वत्या च वैराग्यं तस्य उत्पादितम्। विकारे च शान्ते, हरेिं, ब्रह्म वा प्रपन्नम् मन: । निवृत्तिश्च पलीत्वेन परिगृहीता । शमदमसन्तोषादिषु पुत्रेषु, यमनियमादिषु अमात्येषु उपचरत्सु, उपनिषद्देवीसहायः विवेकः यैौवराज्ये अभिपित्त, देव्याः सरस्वत्या उपदेशेन वृद्धमहाराजेन मनसा । ततश्च विवेकेन उपनिषद्देव्यां प्रबोधचन्द्रः उत्पादितः । पुरुषस्य च परब्रह्मतादात्म्यं ** तत्त्वमस्य ' दि श्रुतिशिरःप्रतिपादितं सुसम्पन्ने विष्णुभक्तिप्रसादतः । ततो जीवन्मुक्तिः सम्प्राप्ता । ”