पृष्ठम्:यतिराजविजयम्.pdf/10

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

3 विद्वांसो मनसा, प्रजायमाना रेतसैवमजीविष्मेति । प्रविवेश चक्षुः || ९ ॥ श्रोत्रं होच्चक्राम, तत्संवत्सरं प्रोप्यागत्योवाच, कथमशकत मदृते जीवितुमिति । ते होचुर्यथाबधिराः, अशृण्वन्तः श्रोत्रेण, प्राणन्तः प्राणेन, कदन्तो वाचा, पश्यन्तश्चक्षुषा, विद्धांसो मनसा, प्रजायमाना रेतसैवमजीविष्मेति । प्रविवेश ह श्रोत्रम् ॥ १० ॥ मनो होचक्राम, तत्संवत्सरं प्रोप्यागयोवाच । कथमशकत मटते जीवितुमेिति। ते होचुर्यथामुग्धा, अविद्धांसो मनसा, प्राणन्त प्राणेन, क्दन्तो वाचा, पश्यन्तश्चक्षुषा, शृण्वन्तः श्रोत्रेण, प्रजायमाना रेतसैवमजीविप्मेति । प्रविवेश ह मनः ।। ११ ॥ रेती होचक्राम। तत्संवत्सरं प्रोप्यागयोवाच । कथमशकत मटते जीवितुमिति । ते होचुर्यथा क्लीबाः। अप्रजायमाना रेतसा, प्राणन्तः प्राणेन, वदन्तो वाचा, पश्यन्नश्चक्षुषा, शृण्वन्तः श्रोत्रेण, विद्वांसो मनसा एवमजीविष्मेति । प्रविवेश रेतः || १२ ॥ अथ ह प्राण उत्क्रमिष्यन् यथा महासुहयः सैन्धवः पड्वीशशाङ्गून् संवृद्देदेवं हैषेमान् प्राणान् संक्वर्ह ! ते होचुर्मा भगव उत्क्रामीः, नैव शक्ष्यामस्त्वदृते जीवितुमिति । तस्योमेवलिं कुरुतेति तथेति || १३ ।। सा ह कागुवच, यद्वी अहं वसिष्ठसि, त्वं तद्वसिष्ठोऽसीति । यद्व अहं प्रतिष्ठास्मि त्वं तत्प्रतिष्ठोऽसीति चक्षुः । यद्व अहं संपदस्मि त्वं तत्संपदसीति श्रोत्रम् । यद्वा अह्नमायतनमस्मि, त्वं तदायतमसीति मनः । यद्वा अहं प्रजातिरस्मि त्वं तत्प्रजारसीति रेतः || १४ || इति । पञ्चतन्त्रादिकथासु मृगा मनुष्यत्वेनारोपिताः मनुष्यक्द्वक्हारपथे स्थापिताः । अश्वघोषस्य शारिकपुत्रप्रकरणेऽपि, बुद्धिः, कीर्तिः, घृतिः - इत्यादयो मनुष्यत्वेन रूपिता व्यक्हारपदे व्यवस्थापिता:। अन्ते च बुद्ध: साक्षात्करोति। इमां प्रक्रियां स्वीचके कविकर्णपूरः स्वकीये चैतन्यचन्द्रोदये । तत चैतन्यमेव धते बुद्धस्य भूमिकाम् । एतदादर्शीकृत्य तदनन्तरकालिका अनेके कवितल्लजाः आध्यात्मिककाव्यनि प्रजानां सुलभसुभगप्रबोधनाय विचरयामामुः ।