पृष्ठम्:मेघसन्देशः - दक्षिणावर्तनाथः - १९१९.djvu/13

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

१६

मेघसन्देशे सव्याख्ये

शेषविस्तारपाण्डुः, मध्यादन्यत्र हरिणवर्णः । ‘हरिणः पाण्डुरः पाण्डुः’ इत्यमरः ॥१८॥


स्थित्वा तस्मिन् वनचरवधूभुक्तकुञ्जे मुहूर्तं
तोयोत्सर्गद्रुततरगतिस्तत्परं वर्त्म तीर्णः ।
रेवां द्रक्ष्यस्युपलविषमे विन्ध्यपादे विशीर्णां

भक्तिच्छेदैरिव विरचितां भूतिमङ्गे गजस्य ॥ १९ ॥

स्थित्वेति । कुञ्जं लतादिपिहितोदरं पर्वतगृहम् । अनेन वनचरवधूसम्भोगं च द्रक्ष्यसीत्युक्तम् । मुहूर्तम्, अनेन वनचरवधूपरिभोगदर्शनात् तव कालविलम्बो मा भूदिति विवक्षितम् । तोयोत्सर्गद्रुततरगतिः ‘आसारप्रशमितदवोपप्लवम्’ इत्यत्रोक्तस्तोयोत्सर्गोऽत्र विवक्षितः । तत्परं शैलात् परम् । तीर्णोऽतिक्रान्तः । वनचरमिथुनपरिभोगानतिदर्शनात् तव विषादो मा भूत् । सम्भोगलोलुपं मिथुनान्तरं द्रक्ष्यसीत्यभिप्रायेणाह- रेवां द्रक्ष्यसीति । रेवां नर्मदाम् । विन्ध्यपादे विन्ध्यपर्यन्तपर्वते । विन्ध्यपादे विशीर्णामित्यनेन कामातिशयात् प्रियतमपादे कस्याश्चित् पतनं ध्वन्यते । भक्तिच्छेदैः छेदाकारभक्तिभिर्बहुविधाभिर्भक्तिरेखाभिः । विरचितामर्पिताम् । भूतिं भसितम् । उक्तञ्च --

"भक्तिभिर्बहुविधाभिरर्पिता भाति भूतिरिव मत्तहस्तिनः"

इति ॥ १९ ॥


तस्यास्तिक्तैर्वनगजमदैर्वासितं वान्तवृष्टि-
र्जम्बूकुञ्जप्रतिहतरयं तोयमादाय गच्छेः ।
अन्तःसारं घन ! तुलयितुं नानिलः शक्ष्यति त्वां

रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय ॥ २० ॥

तस्या इति । तस्यास्तिक्तैः, तिक्तशब्देन सुरभिगन्धश्च तिक्तरसश्च विवक्षितः ।

"कटुतिक्तकषायास्तु सौरभ्यॆ परिकीर्तिताः"



पूर्वसन्देशः ।

१७

इति हलधरः । वनगजमदैर्विन्ध्याटवीगजमदैर्वासितं, अनेन गन्धसंस्कारो रुषितत्वं च विवक्षितम् । वान्तवृष्टिः, अनेन वर्षोत्सर्गश्छर्दिश्च । जम्बूकुञ्जप्रतिहतरयम्, अनेन लघुत्वं च कषायभावना च । अन्तःसारम्, अनेनाभ्यन्तरस्थजलत्वमभ्यन्तरबलत्वं च विवक्षितम् । घन!, अनेन मेघश्च स्थिरशरीरश्च । अनिलः, अनेन बाह्यः शारीरवायुश्च । रिक्तः, अनेन कृशश्च कृतवमनशुधद्धिश्च विवक्षितः । पूर्णता, अनेन तोयपानेन पेयादिक्रमेण चाप्यायनम् । अयमत्र समाधिः – कृतवमनशुद्धिः पुरुषः शेषदोषोपशोषणार्थं तिक्तकषायवासितं लघुजलं पिबति । पश्चाद् बलवतोऽस्य वायुरपि न कुप्यतीति । अत्र वाहटः –-

"कषायाश्चाहिमास्तस्य विशुद्धौ श्लेष्मणो हिताः ।
किमु तिक्ताः कषाया वा ये निसर्गात् कफापहाः ॥"

इति । खरनादेऽपि --

"कृतशुद्धेः क्रमात् पीतपेयादेः पथ्यभोजिनः ।
वातादिभिर्न बाधा स्यादिन्द्रियैरिव योगिनः" ॥ २० ॥
नीपं दृष्ट्वा हरितकपिशं केसरैरर्धरूढै-

राविर्भूतप्रथममुकुलाः कन्दलीश्चानुकच्छम् ।
जग्ध्वारण्येष्वधिकसुरभिं गन्धमाघ्राय चोर्व्याः

सारङ्गास्ते जललवमुचः सूचयिष्यन्ति मार्गम् ॥ २१ ॥

नीपमिति । नीपः कदम्बः । स च द्विविधः जलकदम्बः स्थलकदम्बश्चेति । जलकदम्बस्तरुप्रायः । स्थलकदम्बः प्रादेशमात्रप्ररूढ ओषधिविशेषः । अत्र स्थलकदम्बो विवक्षितः । तस्य वर्षास्वेव प्रादुर्भावात् । अत एव कदम्बस्य प्रावृषेण्यसंज्ञा ।

"कदम्बः पुलकी श्रीमान् प्रावृषेण्यो हलिप्रियः"

इति यादवः । नीपं हरितकपिशं, हरितः पलाशवर्णः कपिशः स्वर्णाभः । अर्घरूढैः एकदेशप्ररूढैः । अनेन तस्य नवप्रादुर्भावः सूचितः । आविर्भूतप्रथममुकुलाः, अनेनापि कन्दलीमुकुलप्रादुर्भावस्य नवत्वमुक्तम् । अनुकच्छमनुजलप्रायदेशम् ।