१८
इत्यमरः । जग्ध्वेति पाठः । जग्ध्वा भक्षयित्वा । 'अद भक्षणे' इत्यस्माद् धातोः क्त्वाप्रत्यये कृते ‘अदोजग्धिर्ल्यप् ति किति’ (२.४.३६) इति जग्ध्यादेशः । ननूर्वीगन्धस्य वक्ष्यमाणत्वाद् दग्धारण्येष्विति पाठ एव युक्त इति । तन्न । दाहमन्तरेणापि वसुधागन्धस्य सम्भवात् । उत्तरत्र वक्ष्यति च- ‘त्वं निःष्यन्दोच्छृसितवसुधागन्धसम्पर्करम्य’ इति । अरण्येषु, सर्वशेषमिदम् । अधिकसुरभिं, स्वभावत एव उर्च्या गन्धवत्त्वापेक्षया अधिकशब्दः प्रयुक्तः । सारङ्गाः हरिणाः ।
इति सिंहः । जललवमुचः , अनेन नीपकन्दलीवसुधागन्धानामुत्पादकत्वमुक्तम् । निर्मनुष्येष्वरण्येषु हरिणास्तवाभिनववृष्टिपातोद्भूतं नीपं दृष्ट्वा तथानुकच्छं कन्दलीश्च जगध्वा उर्च्या अधिकसुरभिं गन्धमाघ्राय च त्वद्गमनमार्गं त्वदागमनोत्सुकेभ्यः पथिकेभ्यः सूचयिष्यन्तीव्यर्थः । ये पुनः सारङ्गशब्देन चातकहरिणगजाविवक्षिता इति व्याचक्षते, तेषां तु मतमुपेक्षणीयं, सारङ्गशब्दस्य गजवाचित्वादर्शनात् ।
इति यादवः । किञ्च एकस्यैव शब्दस्य युगपदनेकार्थत्वस्य भिन्नक्रियासमन्वयस्य च क्लिष्टत्वात् कन्दलीश्चेत्यत्र समुच्चयानुपपत्तेश्चेत्यलमतिप्रसङ्गेन ॥२१॥
कालक्षेपं ककुभसुरभौ पर्वते पर्वते ते ।
शुक्लापाङ्गैः सजलनयनैः स्वागतीकृत्य केकाः
उत्पश्यामीति । उत्पश्यामि उत्प्रेक्षे चिन्तयामीत्यर्थः । ककुभसुरभौ, अनेन प्रत्युद्गमने पुष्पसम्पत्तिर्निसर्गसिद्धेत्युक्तम् । शुक्लापाङ्गैर्मयूरैः ।
१९
इति यादवः । सजलनयनैः मेघसन्दर्शनानन्देन साश्रुजलनयनैः । अनेन शु(क्ति? क्ल)पात्रगतं पाद्यजलं सूचितम् । स्वागतीकृत्य केका इत्यनेन कुशलप्रश्नो विवक्षितः । प्रत्युद्यातः प्रत्युद्गतः । आतिथ्यक्रियया प्रत्युद्गमनमत्र विवक्षितम् ॥ २२ ॥
र्नीडारम्भैर्गृहबलिभुजामाकुलग्रामचैत्याः ।
त्वय्यासन्ने परिणतफलश्यामजम्बूवनान्ताः
पाण्ड्विति । पाण्डुच्छायोपवनवृतयः पाण्डुच्छाया हरिणवर्णच्छाया उपवनवृतयः समीपवृतयः येषाम् । केतकैः केतकीपुष्पैः । सूचिभिन्नैः सूच्याकारेषु मुकुलाग्रेषु भिन्नैः विकसितैः । नीडारम्भैः कुलायोपक्रमैः । गृहबलिभुजां गृहेषु बलिहारिणामन्नभोजिनां, काकादीनामित्यर्थः । आकुलग्रामचैत्याः । चैत्यं नाम चतुष्पथोद्देशस्थितो वृक्षः ।
इति यादवः । दशार्णा विन्ध्योत्तरस्थाः केचन जनपदाः ।
इति यादवः । ननु ‘पोटायुवति-’ (२.१.६५) इत्यादिसूत्रेणा समासे कतिपयशब्दस्योत्तरपदत्वविधानाद् दिनकतिपयस्थायीति वक्तव्यम् । प्रायिकं चैतत् ।
इति भर्तृहरिवचनात् ॥ २३ ॥
गत्वा सद्यः फलमविकलं कामुकत्वस्य लब्धा ।
तीरोपान्तस्तनितसुभगं पास्यसि स्वादु यत् तत्