पृष्ठम्:मेघसन्देशः - दक्षिणावर्तनाथः - १९१९.djvu/12

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

१४

मेघसन्देशे सव्याख्ये
रत्नच्छायाव्यतिकर इव प्रेक्ष्यणीयं पुरस्ताद्

वल्मीकाग्रात् प्रभवति धनुःखण्डमाखण्डलस्य ।
येन श्यामं वपुरतितरां कान्तिमापत्स्यते ते

बर्हेणेव स्फुरितरुचिना गोपवेषस्य विष्णोः ॥ १५ ॥

रत्नेति । रत्नच्छायाव्यतिकर इति पाठः । वल्मीकाग्रात् प्रभवति, तदन्तर्गतसर्पशिरोरत्नच्छायाव्यतिकर इव प्रेक्षणीयं घनुःखण्डं वल्मीकाग्रात् प्रभवतीत्यर्थः । वल्मीकाग्रादिन्द्रघनुषः प्रादुर्भाव उक्तः संहितायां -‌-

"जलमध्येऽनावृष्टिर्भुवि सस्यवधस्तरूत्थिते व्याधिः ।
वल्मीके शस्त्रभयं निशि सचिववधाय धनुरैन्द्रम् ॥"

इति । अनेनार्थेनापि निमित्तं सूचितम् । तथाह महायात्रायां --

"चापमैन्द्रमनुलोम(य ? म)खण्डं प्रोज्ज्वलद्वहलमायतमिष्टम्"

इति ॥ १५ ॥

त्वय्यायत्तं कृषिफलमिति भ्रूविलासानभिज्ञैः

प्रीतिस्निग्धैर्जनपदवधूलोचनैः पीयमानः ।
सद्यःसीरोत्कषणसुरभि क्षेत्रमारुह्य मालं

किञ्चित् पश्चाद् व्रज लघुगतिर्भूय एवोत्तरेण ॥ १६ ॥

त्वय्यायत्तमिति । अत्रेदमनुसन्धेयं – रामगिरेरुत्तरतः केचिद् देवमातृका जनपदाः सन्ति । तत्रत्याः स्त्रियः पामर्यः ! तस्मात् ता सां स्त्रीणां भ्रूविलासानभिज्ञत्वमुक्तम् । सद्यःसीरोत्कषणसुरभि, इदमारोहणक्रियाविशेषणम् । वर्षानन्तरं हलोत्कर्षणसुरभिगन्धमित्यर्थः । मालं पर्वतप्रायमुन्नतस्थलम् । तयोत्पलमालायां ‌--

"मेघमन्मथयोर्मारो मारं मरणमिष्यते ।
माला पुष्पादिबन्धे स्यान्मालमुन्नतभूतलम् ॥"

इति । मालयोगान्मालव इति प्रसिद्धो देशः । आरुह्येत्यनेनापि तस्योन्नतत्वं प्रतीयते । लघुगतिः, मालक्षेत्रे वृष्टिविसर्जनाल्लघुगतिरित्यर्थः । मालेन पश्चाद्गमनं तदुत्तरेण गमनं चाम्रकूटाख्ये पर्वते विश्रान्त्यर्थमुक्तमित्यवसेयम् ॥१६॥



पूर्वसन्देशः ।

१५

तामेव विश्रान्तिमाह --

त्वामासारप्रशमितदवोपप्लवं साधु मूर्ध्ना

वक्ष्यत्यध्वश्रमपरिगतं सानुमानाम्रकूटः ।
न क्षुद्रोऽपि प्रथमसुकृतापेक्षया संश्रयाय

प्राप्ते मित्रे भवति विमुखः किं पुनर्यस्तथोच्चैः ॥

त्वामासारेति । अनेन प्रथमोपकारः सूचितः । आसारो धारासम्पातः । मूर्ध्ना शिखरेण शिरसापीति ध्वन्यते । वक्ष्यति, वहतेरिदं रूपम् । अध्वश्रमपरिगतम् अध्वश्रमेण परिक्षीणगमनमिति व्याचक्षते । मद्वहने किं कारणमित्याशङ्क्याह -- न क्षुद्रोऽपीति । संश्रयाय निवासाय । तथोच्च इति, हृदयस्थिततद्वैभवानुसन्धानेन तथाशब्दः प्रयुक्तः। क्षुद्रोऽपि स्वस्मिन् संश्रयाय मित्रे प्राप्ते प्रथमसुकृतापेक्षया विमुखो (न) भवति । तथोञ्चः किं पुनरित्यर्थः ॥ १७ ॥

छन्नोपान्तः परिणतफलद्योतिभिः काननाम्रै-

स्त्वय्यारूढे शिखरमचलः सर्पषेणीसवर्णे ।
नूनं यास्यत्यमरमिथुनप्रेक्षणीयामवस्थां

मध्ये श्यामः स्तन इव भुवः शेषविस्तारपाण्डुः ॥ १८ ॥

छन्नेति । छन्नोपान्तः छादितपर्यन्तः । परिणतफलद्योतिभिः परिणतफलपाण्डुवर्णोज्ज्वलैः । पाण्डुवर्णत्वं च हरिणसमानवर्णत्वं, न तु श्वैत्यम् । आम्रफलानमनेकवर्णत्वात् ।

"अनेकवर्णं पवनावधूतं भूमौ पतत्याम्रफलं विपक्वम्"

इति श्रीरामायणवचनदर्शनात् । अनेन वर्षासु काननाम्राः फलन्तीति सूचितम् । सर्पवेणीसवर्णे । वेणी केशबन्धः । सर्पस्य वेणी सर्पस्य वेष्टनम् । वर्णतः संस्थानतश्च सर्पवेणीसमान इत्यर्थः

"नीलालके मेघचये मेचके स्तनचूचुके ।
मण्डले कृष्णसर्पाणां सर्पवेणी निगद्यते ॥"