पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
पूर्वमेघः ।

मरः ॥ तस्य भ्रंशेन पातेन रिक्तः शून्यः प्रकोष्ठः कूपराधः प्रदेशो यस्य स तथोक्तः ॥ "कक्षान्तरे प्रकोष्ठः स्यात्प्रकोष्ठः कूर्परादधः' इति शाश्वतः॥ विरहदुःखात्कृश इत्यर्थः । कामी कामुकः स यक्षः । कतिचिन्मासान् । अष्टौ मासानित्यर्थः । “शेषान्मासान्गमय चतुरः” इति वक्ष्यमाणत्वात् ॥ नीत्वा यापयित्वा । आपाढानक्षत्रेण युक्ता पौर्णमास्याषाढी ॥ "नक्षत्रेण युक्तः कालः" इत्यण् । “टिड्ढाणञ्-" इत्यादिना डीप् ॥ साषाढ्यस्मिन्पौर्णमासीत्याषाढो मासः ॥ "सास्मिन्पौर्णमासीति संज्ञायाम्" इत्यण् ॥ तस्य प्रथमदिवसे आश्लिष्टसानुमाकान्तकूटम् । वप्रक्रीडा उत्खातकेलयः ॥ "उत्खातकेलिः शृङ्गाद्यैर्वप्रक्रीडा निगद्यते” इति शब्दार्णवे ॥ तासु परिणतस्तिर्यग्दन्तप्रहारः ॥ "तिर्यग्दन्तप्रहारस्तु गजः परिणतो मतः” इति हलायुधः । स चासौ गजश्च तमिव प्रेक्षणीयं दर्शनीयं मेघं ददर्श ॥ गजप्रेक्षणीयमित्यत्रेवलोपाल्लुप्तोपमा ॥ केचित् “ आषाढस्य प्रथमदिवसे " इत्यत्र “प्रत्यासन्ने नभसि” इति वक्ष्यमाणनभोमासप्रत्यासत्त्यर्थं "प्रथमदिवसे” इति पाठं कल्पयन्ति तदसंगतम् । प्रथमातिरेके कारणाभावात् । नभोमासस्य प्रत्यासत्त्यर्थमित्युक्तमिति चेन्न । प्रत्यासत्तिमात्रस्य मासप्रत्यासत्त्यैव प्रथमदिवसस्याप्युपपत्तेः । अत्यन्तप्रत्यासत्तेरुपयोगाभावेनाविवक्षितत्वात् । विवक्षितत्वे वा स्वपक्षेऽपि प्रथमदिवसातिक्रमेण मेघदर्शनकल्पनायां प्रमाणाभावेन तदसम्भवात् । प्रत्युतास्मत्पक्ष एव कुशलसन्देशस्य भाव्यनर्थप्रतीकारार्थस्य पुरत एवानुमानमुक्तं भवतीत्युपयोगसिद्धिः ॥ ननून्मत्तस्य नायं विवेक इति चेन्न । उन्मत्तस्य नानर्थस्य प्रतीकागर्थं प्रवृत्तिरपीति संदेश एव मा भूत् । तथा च काव्यारम्भ एवाप्रसिद्धः स्यादित्यहो मूलच्छेदी पाण्डित्यप्रकर्षः ॥ कथं तर्हि "शापान्तो मे भुजगशयनादुस्थिते शार्ङ्गपाणौ” इत्यादिना भगवत्प्रबोधावधिकस्य शापस्य मासचतुष्टयावशिष्टस्योक्तिः, दशदिवसाधिक्यादिति चेत्-स्वपक्षेऽपि कथं सा, विंशतिदिवसैर्न्यूनत्वादिति सन्तोष्टव्यम् । तस्मादीषद्वैषम्यमविवक्षितमिति सुष्ठूक्तं "प्रथमदिवसे” इति ।

 तस्य स्थित्वा कथमपि पुरः कौतुका[१]धानहेतो-
  रन्तर्बाष्पश्चिरमनुचरो राजराजस्य दध्यौ ।


  1. केतकाधान ।