मेघालोके भवति सुखिनोऽप्यन्यथावृत्ति चेतः
कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे ॥ ३ ॥
तस्येति ॥ राजानो यक्षाः ॥ "राजा प्रभौ नृपे चन्द्रे यक्षे क्षत्रियशक्रयोः’ इति विश्वः । राज्ञां राजा राजराजः कुबेरः ॥ राजराजो धनाधिपः इत्यमरः । “राजाहः सखिभ्यष्टच्” इति टच्प्रत्ययः ॥ तस्यानुचरो यक्षः । अन्तर्बाप्पो धीरोदात्तत्वादन्तःस्तम्भिताश्रुः सन् । कौतुकाधानहेतोरभिलाषोत्पादकारणस्य ॥ "कौतुकं चाभिलाषं स्यादुत्सवे नमहर्षयोः” इति विश्वः ॥ तस्य मेघस्य पुरोऽग्रे कथमपि ॥ गरीयसा प्रयत्नेनेत्यर्थः ॥ “ज्ञानहेतुविवक्षायामप्यादि कथमव्ययम् । कथमादि तथाप्यन्तं यत्नगौरवबाढयोः” इत्युज्ज्वलः ॥ स्थित्वा चिरं दध्यौ चिन्तयामास ॥ “ध्यै चिन्तायाम्" इति धातोर्लिट् ॥ मनोविकारोपशमनपयन्तमिति शेषः ॥ विकारहेतुमाह-मेघालोक इति ॥ मेघालोके मेघदर्शने सति सुखिनोऽपि प्रियादिजनसंगतस्यापि चेतश्चित्तमन्यथाभूता वृत्तिर्व्यापारो यस्य तदन्यथावृत्ति भवति । विकृतिमापद्यत इत्यर्थः। कण्ठाश्लेषप्रणयिनि कण्ठालिङ्गनार्थिनि जने । दूरे संस्था स्थितिर्यस्य तस्मिन्दूरसंस्थे सति किं पुनः ! विरहिणः किमुत वक्तव्यमित्यर्थः । विरहिणां मेघसंदर्शनमुद्दीपनं भवतीति भावः ॥ अर्थान्तरन्यासोऽलङ्कारः । तदुक्तं दण्डिना "ज्ञेयः सोऽर्थान्तरन्यासो वस्तु प्रस्तुत्य किञ्चन । तत्साधनसमर्थस्य न्यासो योऽन्यस्य वस्तुनः" इति ॥
अथ समाहितान्तःकरणः सन्किं कृतवानित्यत आह-
(३) मेघदर्शनात्प्रियजनसङ्गतस्यापि चेतोविकारसम्भवात्तद्विरहिणस्तु सुतरां तत्सम्भवादसौ यक्षो मेघाग्रे तिष्ठन् चिरं व्यचिन्तयदिति भावः ।
(४) मेघद्वारा प्रियाम्प्रति निजकुशलवृत्तं प्रापयिष्यन्नसौ यक्षो गिरिमल्लिकाकुसुमैस्तमभ्यर्च्य प्राब्रवीदिति भावः ।