पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
मेघदूतम् ।

 कश्चिदिति । स्वाधिकारात्स्वनियोगात्प्रमत्तोऽनवहितः ॥ "प्रमादोऽनवधानता" इत्यमरः । "जुगुप्साविरामप्रमादार्थानामुपसंख्यानम्" इत्यपादानत्वम् । तस्मात्पञ्चमी ॥ अत एवापराधाद्धेतोः । कान्ताविरहेण गुरुणा दुर्भरेण । दुस्तरेणेत्यर्थः ॥ "गुरुस्तु गीष्पतौ श्रेष्ठे गुरौ पितरि दुर्भरे" इति शब्दार्णवे ॥ वर्षभोग्येण संवत्सरभोग्येण ॥ 'कालाध्वनोरत्यन्तसंयोगे" इति द्वितीया । "अत्यन्तसंयोगे च" इति समासः । "कुमति च" इति णत्वम् । भर्तुः स्वामिनः शापेन । अस्तंगमितो महिमा सामर्थ्यं यस्य सोऽस्तंगमितमहिमा ॥ अस्तमिति मकारान्तमव्ययम् ॥ तस्य "द्वितीया-" इति योगविभागात्समासः ॥ कश्चिदनिर्दिष्टनामा यक्षो देवयोनिविशेषः ॥ "विद्याधराप्सरोयक्षरक्षोगन्धर्वकिन्नराः । पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः" इत्यमरः ॥ जनकतनयायाः सीतायाः स्नानैरवगाहनैः पुण्यानि पवित्राण्युदकानि येषु तेषु । पावनेष्वित्यर्थः ॥ छायाप्रधानास्तरवश्छायातरवः ॥ शाकपार्थिवादित्वात्समासः ॥ स्निग्धाः सान्द्राश्छायातरवो नमेरुवृक्षा येषु तेषु । वसतियोग्येष्वित्यर्थः ॥ "स्निग्धं तु मसृणे सान्द्रे” इति "छायावृक्षो नमेरुः स्यात्" इति च शब्दार्णवे ॥ रामगिरेश्चित्रकूटस्याश्रमेषु वसतिम् ॥ "वहिवस्यर्तिभ्यश्च" इत्यौणादिकोऽतिप्रत्ययः ॥ चक्रे कृतवान् ॥ अत्र रसो विप्रलम्भाख्यः शृङ्गारः । तत्राप्युन्मादावस्था । अत एवैकत्रानवस्थानं सूचितमाश्रमेष्विति बहुवचनेन ॥ सीतां प्रति रामस्य हनुमत्संदेशं मनसि निधाय मेघसंदेशं कविः कृतवानित्याहुः ॥ अत्र काव्ये सर्वत्र मन्दाक्रान्तावृत्तम् । तदुक्तम्-- "मन्दाक्रान्ता जलधिषडगैर्म्भौ नतौ ताद्गुरू चेत्" इति ॥

 तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्तः स कामी
  नीत्वा मासान्कनकवलयभ्रंशरिक्तप्रकोष्ठः ।
 आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानुं
  वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ॥ २ ॥

 तस्मिन्निति ॥ तस्मिन्नद्रौ चित्रकूटाद्रौ । अबलाविप्रयुक्तः कान्ताविरही । कनकस्य वलयः कटकम् । "कटकं वलयोऽस्त्रियाम्" इत्य


 (२) तत्राश्रमे वसन्नसौ कामी यक्षो मासाष्टके व्यतीते आषाढप्रथमदिने मेघमपश्यदिति भावः ।