पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५०
मेघदूतम् ।

स्यादुत्तरीये सितांशुके" इति शब्दार्णवे ॥ अन्यत्र तु गङ्गैव दुकूलम् । तत्स्त्रस्तं यस्यास्तां तथोक्तामलकां कुवेरनगरी दृष्ट्वा । कामिनीमिवेति शेषः। हे कामचारिन्, त्वं पुनस्त्वं तु न ज्ञास्यस इति न किं तु ज्ञास्यस एवेत्यर्थः ॥ कामचारिणस्ते पूर्वमपि बहुकृत्वो दर्शनसंभवादज्ञानमसंभावितमेवेति निश्चयार्थं नञ्द्वयप्रयोगः । तदुक्तम्-"स्मृतिनिश्चयसिद्धयर्थेषु नञ्द्वयप्रयोगः" इति ॥ उच्चैरुन्नतानि विमानानि [सप्तभूमिकभवनानि यस्यां सा ॥ "विमानोऽस्त्री देवयाने सप्तभूमौ च सद्मनि" इति यादवः ॥ मेघसंवाहनस्थानसूचनार्थमिदं विशेषणम् ॥ अन्यत्र विमाना निष्कोपा याऽलका । वो युष्माकं काले । मेघकाल इत्यर्थ ॥ कालस्य सर्वमेघसाधारण्याद्व इति बहुवचनम् ॥ सलिमुद्गिरतीति सलिलोद्गारम् । स्रवत्सलिलधारमित्यर्थः ॥ अभ्रवृन्दं मेघकदम्बकं कामिनी स्त्री मुक्ताजालैएमौक्तिकसरैर्ग्रथितं प्रत्युप्तम् ॥ "पुंश्रल्यां मौक्तिके मुक्ता" इति यादवः ॥ अलकमिव चूर्णकुन्तलानीव । जातावेकवचनम् ॥ "अलकाश्चूर्णकुन्तलाः" इत्यमरः ॥ वहति बिभर्ति ॥ अत्र कैलासस्यानुकूलनायकत्वमलकायाश्च स्वाधीनपतिकाख्यनायिकात्वं ध्वन्यते । "एकायत्तोऽनुकूलः स्यात्" इति च "प्रियोपलालिता नित्यं स्वाधीनपतिका मता" इति च लक्षयन्ति । उदाहरन्ति च -"लालयन्नलकप्रान्तान्रचयपत्रमञ्जरीन् । एकां विनोदयन् कान्तां छायावदनुवर्तते ॥” इति ॥

इति श्रीमहामहोपाध्यायमल्लिनाथसूरिविरचितया संजीबिनीसमाख्यया
व्याख्यया समेतो महाकविश्रीकालिदासविरचिते मेघदूते
काव्ये पूर्वमेघः समाप्तः ।