नोदनार्थमिति प्रसिद्धम् ॥ लम्बमानस्य पीतसलिलभराल्लम्बमानस्य । अन्यत्र जघनारूढस्य । ते तव प्रस्थानं प्रयाणं कथमपि कृच्छ्रेण भावि ॥ कृच्छत्वे हेतुमाह-ज्ञातेति ॥ ज्ञातास्वादोऽनुभूतरसः कः पुमान्विवृतं प्रकटीकृतं जघनं कटिस्तत्पूर्वभागो वा यस्यास्ताम् “जघनं स्यात्कटौ पूर्वश्रोणिभागापरांशयोः" इति यादवः ॥ विहातुं त्यक्तुं समर्थः । न कोऽपोत्यर्थः ।
त्वन्निष्यन्दोच्छ्वसितवसुधागन्धसंपर्करम्यः
स्रोतोरन्ध्रध्वनितसुभगं दन्तिभिः पीयमानः ।
नोचैर्वास्यत्युपजिगमिषोर्देवपूर्व गिरिं ते
शीतो वायुः परिणमयिता काननोदुम्बराणाम्॥४२॥
स्वदिति ॥ त्वनिष्यन्देन तव वृष्टयोच्छ्वसिताया उपबृंहिताया वसुधाया भूमेर्गन्धस्य संपर्केण रम्यः । सुरभिरित्यर्थः ॥ स्रोतः शब्देनेन्द्रियवाचिना तद्विशेषो घ्राणं लक्ष्यते ॥ "स्रोतोऽम्बुवेगेन्द्रिययोः" इत्यमरः ॥ स्रोतोरन्ध्रेषु नासाग्रकुहरेषु यद्ध्वनितं शब्दस्तेन सुभगं यथा तथा दन्तिभिर्गजैः पीयमानः। वसुधागन्धलोभादाघ्रायमाण इत्यर्थः । अनेन मान्द्यमुच्यते । काननेषु वनेषूदुम्बराणां जन्तुफलानाम् "उदुम्बरो जन्तुफलो यज्ञाङ्गो हेमदुग्धकः' इत्यमरः ॥ परिणमयिता परिपाकयिता ।। "मितां ह्रस्वः” इति ह्रस्वः ॥ शीतो वायुः । देवपूर्वे देवशब्दपूर्वं गिरिम् । देवगिरिमित्यर्थः । उपजिगमिषोरुपगन्तुमिच्छोः ॥ गमेः सन्नन्तादुप्रत्ययः ॥ ते तव नीचैः शनैर्वास्यति । त्वां बीजयिष्यतीत्यर्थः ॥ सम्बन्धमात्रविवक्षायां षष्ठी । “देवपूर्व गिरिम्" इत्यत्र देव पूर्वत्वं गिरिशब्दस्य न तु संज्ञिनस्तदर्थस्येति संज्ञायाः संज्ञित्वाभावादवाच्यवचनं दोषमाहुरालंकारिकाः । तदुक्तमेकावल्याम् – “यदवाच्यस्य वचनमवाच्यवचनं हि तत्" इति ॥ समाधानं तु देवशब्दविशेषितेन गिरिशब्देन शब्दपरेण मेघोपगमनयोग्यो देवगिरिर्लक्ष्यत इति कथंचित्संपाद्यम् ।।
तत्र स्कन्दं नियतवसतिं पुष्पमेघीकृतात्मा
पुष्पासारैः स्नपयतु भवान्व्योमगङ्गाजलार्द्रैः ।
(४२) हे मेघ ! शीतो वायुर्देवगिरिं जिगमिषुं त्वां शनैर्वीजयिष्यतीति भावः ।
१ पुण्य: