पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
मेघदूतम् ।

 मदथ प्रस्थितस्य तेपथिकाङ्गनाजनासनमानुषङ्गिकं फलमित्याह-

 त्वामारूढं पवनपदवीमुद्गृहीतालकान्ताः
  प्रेक्षिष्यन्ते पथिकवनिताः प्रत्ययादाश्‍वसन्त्यः ।
 कः संनद्धे विरहविधुरां त्वय्युपेक्षेत जायां
  न स्यादन्योऽप्यहमिव जनो यः पराधीनवृत्तिः॥८॥

 त्वमिति ॥ पवनपदवीमाकाशमारूढं त्वाम् पन्थानं गच्छन्ति ते पथिकाः ॥ "पथः ष्कन्” इति ष्कप्रत्ययः ॥ तेषां वनिता: प्रोषितभर्तृकाः । प्रत्ययात्प्रियागमनविश्वासात् ॥ “प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु" इत्यमरः ॥ आश्वसन्त्यो विश्वसिताः ॥ श्वसधातोः शत्रन्तात् "उगितश्च" इति ङीप् ॥ तथोद्गृहीतालकान्ता दृष्टिप्रसारार्थमुन्नमय्य धृतालकाग्राः सत्यः प्रेक्षिष्यन्ते । अत्युत्कण्ठतया द्रक्ष्यन्तीत्यर्थः ॥ मदागमनेन पथिकाः कथमागमिष्यन्तीत्यत्राह-तथाहि । त्वयि संनद्धे व्यापृते सति विरहेण विधुरां विवशां जायां क उपेक्षेत । न कोऽपीत्यर्थः । अन्योऽपि मद्व्यतिरिक्तोऽपि यो जनोऽहमिव पराधीनवृत्तिः परायत्तजीवनको न स्यात् । स्वतन्त्रस्तु न कोऽप्युपेक्षेतेति भावः ॥ अत्रार्थान्तरन्यासोऽलङ्कारः । तदुक्तम्-"कार्यकारणसामान्यविशेषाणां परस्परम् । समर्थनं यत्र सोऽर्थान्तरन्यास उदाहृतः ॥” इति लक्षणात् ॥

 निमित्तान्यपि ते शुभानि दृश्यन्त इत्याह-

 मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वां
  वामश्चायं नदति मधुरं चा[१]तकस्ते सगन्धः ।
 गर्भाधानक्ष[२]णपरिचयान्नूनमाबद्धमालाः
  सेवि[३]ष्यन्ते नयनसुभगं खे भवन्तं बलाकाः ॥६॥

 मन्दं मन्दमिति ॥ अनुकूलः पवनो वायुस्त्वां मन्दं मन्दम् । अतिमन्दमिर्त्थः ॥ अत्र कथंचिद्वीप्सायामेव द्विरुक्तिनिर्वाह्या ॥ "प्रकारे गुणवचनस्य" इत्येतदाश्रयणे तु कर्मधारयवद्भावे सुब्लुकि मन्दमन्दमिति


 (९) अनुकूलवायुनोदनादिशुभशकुनमवेत्य गच्छन्तं भवन्तं विषति बकपंक्तयो द्रक्ष्यन्तीति भावः ।


  1. तोयगृध्नुः ते सगर्वः
  2. क्षमपरिचयम् स्थिरपरिचयम्
  3. प्रेक्षिष्यन्ते