पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
पूर्वमेघः ।

इति विश्वः ॥ दूरे बन्धुर्यस्य स दूरबन्धुर्वियुक्तभार्योऽहं त्वय्यर्थित्वं गतः । ननु याचकस्य याञ्चायां याच्यगुणोत्कर्षः कुत्रोपयुज्यत इत्याशङ्क्य देवाद्याञ्चाभङ्गेऽपि लाघवदोषाभाव एवोपयोग इत्याह याञ्चेति॥ तथा हि- अधिगुणेऽधिकगुणे पुंसि विषये याञ्चा मोघा निष्फलापि वरमीषत्प्रियम् । दातुर्गुणाढ्यत्वात्प्रियत्वं याञ्चावैफल्यादीपत्प्रियत्वमिति भावः ॥ अधमे निर्गुणे याञ्चा लब्धकामापि सफलापि न वरम् । ईषत्प्रियमपि न भवतीत्यर्थः ॥ “देवाद्वृते वरः श्रेष्ठे त्रिपु क्लीबं मनाविप्रये" इत्यमरः ॥ अर्थान्तरन्यासानुप्राणित: प्रेयोऽलङ्कारः । तदुक्तं दण्डिना-"प्रेयः प्रियतराख्यानम्” इति ॥ एतदाद्यपादत्रये चतुर्थपादस्थेनार्थान्तरन्यासे नोपजीवितमिति सुव्यक्तमेतत् ॥

 संतप्तानां त्वमसि शरणं तत्पयोद प्रियायाः
  सन्देशं मे हर धन[१]पतिक्रोधविश्लेषितस्य !
 गन्तव्या ते वसतिरलका नाम यक्षेश्वराणां
  बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या ॥ ७॥

 संतप्तानामिति ॥ हे पयोद ! त्वं संतप्तानामातपेन वा प्रवासविरहेण वा संज्वरितानाम् ॥ "संताप: संज्वरः समौ” इत्यमरः ॥ शरणं पयोदानेनातपखिन्नानां प्रोषितानां स्वस्थानप्रेरणया च रक्षकोऽसि ॥ "शरणं गृहरक्षित्रोः” इत्यमरः ॥ तत्तस्मात्कारणाद्धनपतेः कुबेरस्य क्रोधेन विश्लेषितस्य प्रियया वियोजितस्य मे मम संदेशं वार्तां प्रियाया हर । प्रियां प्रति नयेत्यर्थः ॥ सम्बन्धसामान्ये पष्ठी ॥ संदेशहरणेनावयोः सन्तापं नुदेत्यर्थः ॥ कुत्र स्थाने सा स्थिता तत्स्थानस्य वा किं व्यावर्तकं तत्राह- गन्तव्येति ॥ बहिर्भवं बाह्यम् ॥ "बहिर्दैवपञ्चजनेभ्यश्च" इति यञ् ॥ बाह्य उद्याने स्थितस्य हरस्य शिरसि या चन्द्रिका तया धौतानि निर्मलानि हर्मयाणि धनिकभवनानि यस्यां सा तथोक्ता ॥ "हादि धनिनां वास” इत्यमरः ॥ अनेन व्यावर्तकमुक्तम् अलका नामालकेति प्रसिद्धा यक्षेश्वराणां वसतिः स्थानं ते तव गन्तव्या । त्वया गन्तव्येत्यर्थः ॥ "कृत्यानां कर्तरि वा" इति षष्ठी ॥


 (७) हे मेघ ! सन्तप्तजनरक्षको भवान् विरहिणो मे सन्देशमलकायां प्रियाम्प्रति नयत्विति भावः ।


  1. धनपते: ।