पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
पूर्वमेघः ।

पूर्वमेघः। स्यात् । तदेवाह वामनः-"मन्दमन्दमित्यत्र प्रकारार्थे द्विर्भावः" इति ॥ यथा सदृशम् । भाविफलानुरूपमित्यर्थः । “यथा सादृश्ययोग्यत्ववीप्सास्वार्थानतिक्रमे" इति यादवः । नुदति प्रेरयति । अयं सगन्धः सगर्वः । संबन्धीति केचित् ॥ "गन्धो गन्धक आमोदे लेशे संबन्धगर्वयोः" इत्युभयत्रापि विश्वः ॥ ते तव वामो वामभागस्थः । “वामस्तु वक्रे रम्ये स्यात्सव्ये वामगतेऽपि च’ इति शब्दार्णवे । चातकः पक्षिविशेषश्च मधुरं श्राव्यं नदति व्याहरति ॥ इदं निमित्तद्वयं वर्तते । वर्तिष्यते चापरं निमित्तमित्याह-गर्भेति ॥ गर्भः कुक्षिस्थो जन्तुः “गर्भोऽपकारके ह्यग्नौ सुखे पनसकण्टके । कुक्षौ कुक्षिस्थजन्तौ च" इति यादवः ॥ तस्याधानमुत्पादनं तदेव क्षण उत्सवः । सुखहेतुत्वादिति भावः ॥ “निर्व्यापारस्थितौ कालविशेषोत्सवयोः क्षणः ” इत्यमरः ॥ तस्मिन्परिचयादभ्यासाद्धेतोः खे व्योम्नि । आबद्धमालाः । गर्भाधानसुखार्थं त्वत्समीपे बद्धपङ्क्तय इत्यर्थः ॥ उक्तं च कर्णोदये "गर्भं बलाका दधतेऽभ्रयोगान्नाके निबद्धावलयः समन्तात्" इति ॥ बलाका बलाकाङ्गनाः नयनसुभगं दृष्टिप्रियं भवन्तं नूनं सत्यं सेविष्यन्ते ॥ अनुकूलमारुतचातकशब्दितबलाकादर्शनानां शुभसूचकत्वं शकुनशास्त्रदृष्टं तद्विस्तरभयान्नालेखि ॥

 न च तस्या नाशाद्व्रतस्खलनाद्वा निरर्थकस्त्वत्प्रयास इत्याह-

 तां चावश्यं दिवसगणनातत्परामेकपत्नी-
  मव्यापन्नामविहतगतिर्द्रक्ष्यसि भ्रातृजायाम् ।
 आशाबन्धः कुसुमसदृशं प्रायशो ह्यङ्गनानां
  सद्यःपाति प्रणयि हृदयं विप्रयोगे रुणद्धि ॥१०॥

 तां चेति ॥ हे मेघ ! दिवसानामवशिष्टदिनानां गणनायां संख्याने तत्परामासक्ताम् ॥ " तत्परे प्रसितासक्ती ” इत्यमरः ॥ अत एवाव्यापन्नाममृताम् । शापावसाने मदागमनप्रत्याशया जीवन्तीमित्यर्थः । एकः पतिर्यस्याः सैकपत्नी ताम् । पतिव्रतामित्यर्थः ॥ "नित्यं सपत्न्यादिषु" इति ङीप् नकारश्च ॥ भ्रातुर्मे जायां भ्रातृजायाम् । मातृवन्निःशङ्कं दर्शनीयामित्याशयः । तां मत्प्रियामविहतगतिरविच्छिन्नगतिः सन्नवश्यं


 (10) हे मेघ ! भवानलकामेत्य वियोगे प्राणत्यागोत्सुकामपि मत्पत्नीमाश्रया जीवन्तीं द्रक्ष्यतीति भावः ।