पृष्ठम्:मेघदूतम् (वल्लभदेवव्याख्यासमेतम्).djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
43
MEGHADUTA

  गाढोत्कण्ठागुरुषु दिवसेष्वेषु गच्छत्सु बालां
  जातां मन्ये शिशिरमथितां पद्मिनीं वान्यरूपाम् ॥ ८० ॥

 तत्र वेश्मनि येवंविधाङ्गनानां भवेत्ता त्वं मम जीवितं द्वितीयं बहिश्चरं जानीथाः । मद्भार्यां बुध्येथाः । कीदृशी । या तन्वी कृशाङ्गी । श्यामैकवारप्रसूता । तरुणीत्यर्थः । शिखरदशना तीक्ष्णदन्ता । पक्वं यद्विम्बफलं तद्वदधरो यस्याः सा । मध्ये क्षामा कृशोदरी । चकितहरिणप्रेक्षणो त्रस्तकुरङ्गनयना । निम्ननाभिरतुन्दिला । श्रोणीभारान्नितम्बभारादलसगमना मन्थरयाता । स्तनाभोगेन च स्तोकं मनाङ्नम्रा नता । किं बहुना । युवतिविषये नारीमध्ये वेधसः आद्या सृष्टिरिव । आदौ ह्यनुद्वेगाद्रम्यं निर्माणं भवति । तां कीदृशीम् । परिमितकथां पेशलभाषिणीम् । मयि सहचरे पत्यौ दूरीभूते दूरस्थिते सति चक्रवाकीमिवैकां केवलाम् । यां च बालाममीषु गाढोत्कण्ठादुःसहेष्वहःसु व्रजत्सु शिशिरदग्धां कमलिनीमिव विरूपां संपन्नां मन्ये जाने । वाशब्द इवार्थे । तां जानीथाः इत्येतदपेक्षयात्र सर्वत्र द्वितीया ॥ ७९ ॥ ८० ॥

  नूनं तस्याः प्रवलरुदितोच्छूननेत्रं बहूनां
  निःश्वासानामशिशिरतया भिन्नवर्णाधरोष्ठम् ।
  हस्तन्यस्तं मुखमसकलव्यक्ति लम्बालकत्वा-
  दिन्दोर्दैन्यं त्वदुपसरणक्लिष्टकान्तेर्बिभर्ति ॥ ८१ ॥

 तस्या वक्तुं निश्चितं त्वदुपसरणक्लिष्टकान्तेर्भवत्संपर्ककदर्थितशोभस्य शशिनो दैन्यं बिभर्ति विच्छायतां धत्ते । यतोऽसकलव्यक्ति न तथा प्रकटम् । कुतः । लम्बालकत्वात् । न हि विरहिणी केशान्संमार्जयति । कीदृशं तत् । प्रबलेनाविच्छिन्नेन रुदितेनोच्छूने नेत्रे यस्य । तथा


3 . 3 . 6 गाढोत्कण्ठ 1.S, A, B, D pr. m. बालाJ. OTAT J. •मथिता पद्मिनोवान्यरूला .स्पा गाढोत्कण्ठाहुः• A, C, D. fouTUT M, S, D. •धरोष्टम J, I, S, D. हस्ते न्यस्त S. वदनुसरण• J, M, D. A 9