पृष्ठम्:मेघदूतम् (वल्लभदेवव्याख्यासमेतम्).djvu/६४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
35
MEGHADUTA

  तस्योत्सङ्गे प्रणयिन इव स्रस्तगङ्गादुगूलां
  न त्वं दृष्ट्वा न पुनरलकां ज्ञास्यसे कामचारिन् ।
  या वः काले वहति सलिलोद्गारमुच्चैर्विमाना
  मुक्ताजालग्रथितमलकं कामिनीवाभ्रवृन्दम् ॥ ६३ ॥

 तत्र कैलासे दृष्ट्वास्मत्पुरीमलकां न न ज्ञास्यसे । अपि तु निःसंदेहं वेत्स्यस्येव यथा नूनमियं सालकेति । यतस्तस्याद्रेरुत्सङ्गेऽङ्के स्रस्त भ्रष्टं गङ्गैव दुगूलमम्बरं यस्यास्ताम् । जाह्नवी हि तत्र वहति । या चालका वः काले युष्माकं समये वर्षाख्येऽभ्रवृन्दं वहति । कीदृशम् । सलिलमुद्गिरति स्रवतीति सलिलोद्गारम् । कर्मण्यण् । का यथा कीदृशं किं वहतीत्याह । मुक्ताजालालंकृतमलकं यया कामिनी बिभर्ति । सापि प्रियस्योत्सङ्गे स्रस्तदुगूला भवति । सलिलस्य मुक्ताजालमुपमानम् । अभ्राणां लम्लाटकेशाः । उचैर्विमाना प्रांशुगृहा । कामचारिन्निति मेघस्य जडत्वं निराकृतम् ॥ ६३ ॥

  विद्युत्वन्तं ललितवनिताः सेन्द्रचापं सचित्राः
  संगीताय प्रहतमुरजाः स्निग्धगम्भीरघोषम् ।
  अन्तस्तोयं मणिमयभुवस्तुङ्गमभ्रंलिहाग्राः
  प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैर्विशेषैः ॥ ६४ ॥

 यत्रालकायां प्रासादा गृहास्तैस्तैरुच्यमानधर्मैर्भवन्तं तुलयितुमलमनुकर्तुं शक्ताः । तथा हि त्वां विद्युत्वन्तं सतडित्कं तेऽपि ललितवनिताः सविलासाङ्गनाः । त्वां सेन्द्रचापं ससुरायुधं तेऽपि सचित्राः सालेख्याः । त्वां स्निग्धगम्भीरघोषं मधुरधीरध्वनितं तेऽपि संगीताय गुणनिकार्थं प्रहतमुरजा वादितमृदङ्गाः । त्वामन्तस्तोयं तेऽपि मणिमयभुवः स्फाटिकावनयः । त्वां तुङ्गमुन्नतं तेऽप्यभ्रंलिहाग्रा व्योमस्पृक्शिखराः । एवं सर्वसादृश्यम् । अभ्रं खं लेढि व्याप्नोतीत्यभ्रंलिहमग्रं येषाम् । वहाभ्रे लिहः । तुलिरदन्तोऽपि ॥ ६४ ॥


•3947 J, M, S, D. 2 •माने: S, B, D pr. m. यस्याः Pan. iii, 2, 1. प्रहतमुरवाः खिग्धपर्जन्य घोषम् J. स्फटिका• A, B, C, D. Pan. iii, 2, 32. 1 3 3 ATD. G .. D2