पृष्ठम्:मेघदूतम् (वल्लभदेवव्याख्यासमेतम्).djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
34
MEGHADUTA

  ताभ्यो मोक्षस्तव यदि सखे धर्मलब्धस्य न स्या-
  क्रीडालोलाः श्रवणपरुषैर्गर्जितैर्भाययेस्ताः ॥ ६१ ॥

 तत्राद्रौ जनितललिलोद्गारं वर्षन्तं त्वामभ्यन्तरप्रवेशान्निश्चितं त्रिदशवनिता नाकयुवत्यो यन्त्रधारागृहत्वं नेष्यन्ति प्रापयिष्यन्ति । यदि किलानिलवशाद्वेश्ममध्ये निक्षिप्तो विरलं वर्षसि तदा त्वमेव यन्त्रधारामयं गृहं संपद्यसे । ग्रीष्मे हि संतापनिवारणायाढ्या धारागृहान्कुर्वते । एवं सति धर्मे लब्धस्य तव ताभ्यः सकाशात्केलिलम्पटाभ्यो यदि त्यागो मोक्षो न स्यात्तत्कर्णकटुकैर्गर्जितैस्ता भाययेस्त्रासयेः । यथोद्विज्य त्वां मुञ्चेयुरिति भावः । उद्गारः प्रसरः ॥ ६१ ॥

  हेमाम्भोजप्रसवि सलिलं मानसस्याददानः
  कुर्वन्कामात्क्षणमुखपटप्रीतिमैरावणस्य ।
  धुन्वन्वातैः सजलपृषतैः कल्पवृक्षांशुकानि'
  च्छायाभिन्नः स्फटिकविशदं निर्विशे: पर्वतं तम् ॥ ६२ ॥

 छायया प्रतिविम्बेन भिन्नो द्विधाभूतस्त्वं सितमणिनिर्मलं तं पर्वतं निर्विशेरुपभुञ्जीथाः । उपभोगमाह । कीदृशस्त्वम् । हेमाम्भोजानि सुवर्णपद्मानि प्रसूते जनयति यत्तदुदकं मानससंवन्ध्याददानो गृह्णन् । प्रसवोऽत्र गीर्णः । तथा कामात्स्वेच्छात एवैरावणस्य क्षणं मुखपटप्रीतिं कुर्वन् । गजा हि मुखपटेन प्रीयन्ते । सजलपृषतैस्तोयकणयुक्तैरनिलः सुरतरुवासांसि धुन्वन्दोलयन् । धुनोतेः सौवादिकस्य ह्रस्वान्तस्याभ्युपगमाद्धुन्वन्निति रूपम् ॥ ६२ ॥


3 + ताभ्यो मोषो यदि तव J. 2 •म्नीलाः श्रवण कटुके; ती- षयेमाः J, D. कुर्वकामं J, I, I); °वतस्य I, S. धुन्वम्क- ल्पद्रुमकिमन यान्यंशु कामि म्ववातः ), धुन्वाकल्पद्रुमकिमन यान्यंशु कानीव ata: M, D. •भिन्न.. विमन A; मानाचे टर्जलद लानित: J, M, D. 'निर्विशेस्तं नगेन्द्रम J, I, S, D; Isvara- chandrn (p. 125 f.) considors this verse an interpolation. 5