पृष्ठम्:मृच्छकटिकम्.pdf/२२६

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१८
मृच्छकटिके

 शकार--अले ! वशंतशेणिअं शअं ज्जेव मालिअ मं दूशिअ कहिं पलाअशि शंपदं ईदिशे हग्गे अणाधे पाविदे । [ अरे ! वसन्त- सेनां स्वयमेव मारयित्वा मां दूषयित्या कुत्र पलायसे ?। सांप्रतमीदृशोऽहमनाथः प्राप्तः ।।

 विटः--अपध्वस्तोऽसि ।

 शकारः---

अत्थं शदं देमि शुवण्णअं दे
कहावणं देमि शवो1डिअं दे।
एशे दुशद्दाण फलक्कमे मे।
शामाण्णए भोदु मणुश्शआणं ॥ ४० ॥

[अर्थं शतं ददामि सुवर्णकं ते काषापणं ददामि सवोडिणं ते ।
एष दोषस्थानं पराक्रमो मे सामान्यको भवतु मनुष्यकाणाम् ॥ ]

 विटः–धिक्, तवैवास्तु ।।

 चेटः--शंतं पावं । [ शान्त पापम् ।]

(शकारो हसति )

 विद!----

अप्रीतिर्भवतु विमुच्यतां हि हासो ।
धिक्प्रीतिं परिभव2कारिकामनार्याम् ।
मा भूच्च त्वयि मम संगतं कदाचि-
दाच्छिन्नं धनुरिव निर्गुणं त्यजामि ॥ ४१ ॥


हे पापसंकल्प ।। अत्थं शदमिति । अथे शतं ददामि सुवर्णकं ते कार्षापर्ण ददामि सवोटिकं ते । वोडी विंशतिकपर्दका ( क ) गौडे प्रसिद्धः । तच्चतुष्टयं 'पणः । ते षोडश कार्षापणः कहावण इत्येके । एष दोषस्थानं पराक्रमो मे साधारणो भवतु मनुष्याणाम् ॥ ४० ॥ अप्रीतिरिति ॥ ११ ॥ | टिप्प,---1 अन्ये तु कहावणमङ्गरक्षादिवस्त्रम् , वेष्टिकं उष्णीषं कटिबन्धनमित्याहुः ।

2 परिभवकारिकां निन्दाहेतुकां, अनार्यां अनादरमूलां, निर्गुणं ज्यारहितम् ।