शकारः---जइ मम वअणे न पत्तिआअशि, ता पेक्ख पढमं लश्टिअशालशंठाणाह शूलत्तणं । [ यदि मम वचने न प्रत्ययसे, तत्पश्य प्रथमं राष्ट्रियश्यालसंस्थानस्य शूरत्वम् ।] ( इति दर्शयति ) ।
विटः----हा, हतोऽस्मि मन्दभाग्यः । ( इति मूर्च्छितः पतति ) ।
शकारः---ही ही, उवलदे भावे । [ही ही, उपरतो भावः ।]
चेटः-शमश्शशदु शमशशदु भावे । अविचालिअं पवहणं आणंतेण ज्जेव मए पढमं मालिदा। [ समाश्वसितु समाश्वसितु भावः । अविचारितं प्रवहणमानयतैव मया प्रथमं मारिता ।]
विटः---( समाश्वस्य, सकरुणम् ) हा वसन्तसेने !
दाक्षिण्योदकवाहिनी विगलिता याता स्वदेशं रति- |
( सास्रम् ) कष्टं भोः ! कष्टम्
किं नु नाम भवेत्कार्यमिदं येन त्वया कृतम् । |
(स्वगतम् ) अये । कदाचिदयं पाप इदमकार्य मयि संक्रामयेत् । भवतु, इतो गच्छामि । ( इति परिकामति )
(शकार उपगम्य धारयति )
विटः–पाप ! मा मा स्प्राक्षीः । अलं त्वया, गच्छाम्यहम् ।
उवलदे उपरतः । दाक्षिण्येति ॥ ३८ ॥ किं न्विति ॥ ३९ ॥ हे पाप टिप्प०-- सौभाग्यं सौन्दर्यं सुदैवं विलासादीनामद्भुतत्वं च तदेव पण्यं
विक्रयवस्तूजातं तस्याकर: खनिः, उत्पत्तिभूमिरिति भावः । अत्र करुणो रसः ।