पृष्ठम्:मृच्छकटिकम्.pdf/२२७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१९
अष्टमोऽङ्कः

 शकारः-भावे | पशीद पशीद । एहि । णलिणीए पविशिअ कीलेम्ह । [ भाव ! प्रसीद प्रसीद । एहि । नलिम्यां प्रविश्य क्रीडावः ।]

 विटः--

अपतितमपि तावत्सेवमानं भवन्तं
पतितमिव जनोऽयं मन्यते मामनार्यम् ।
कथमहमनुयायां त्वां इतस्त्रीकमेनं
पुनरपि नगरस्त्रीशङ्कितार्धाक्षिद्दष्टम् ॥ ४२ ॥

(सकरुणम् ) वसन्तसेने !

अन्य1स्यामपि जातौ मा वेश्या भूस्त्वं हि सुन्दरि !।
चारित्र्यगुणसंपन्ने जायेथा विमले कुले ॥ ४३ ॥

 शकारः--मम केलके पुप्फकलंडकजिण्णुज्जाणे वशंतशेणिअं मालिअ कहिं पलाअशि एहि, मम आवृत्तश्श अग्गदो ववहालं देहि। [मदीये पुष्पकरेण्डक जीर्णोद्याने वसन्तसेनां मारयित्वा कुत्र पलायसे ? एहि, मम आवृत्तस्याग्रतो व्यवहारं देहि ।]( इति धारयति )

 विटः-आः, तिष्ठ जाल्म 1। ( इति खङ्गमाकर्षति )

 शकारः--( सभयमपसृत्य ) किं ले, मीदेशि, ता गच्छ। [ किं रा, भीतोऽसि १ तद्गच्छ ।]

 विटः----( खगतम् ) न युक्तमवस्थातुम् । भवतु, यत्रार्यशर्विलक- चन्दनकप्रभृतयः सन्ति, तत्र गच्छामि । ( इति निष्क्रान्तः )


अपतितमिति ॥४२॥ अन्यस्यामिति ॥ ४३ ॥ आउ (बु) तश्श भगिनीएतेः । व्यवहार (रं) विचारम् ॥ निधनं गच्छ त्विति ( त्वमिति ) ॥ चेटं प्रति ब्रूते । यस्यां वेलायामलंकलेमीति अलंकरोमीति वक्तव्ये इति पुरातनटीका (?)॥ ढिप्प०----1 कस्मिन्नपि जन्मनि मा वेश्या भूः, यतो वेश्यात्वादेवेयं तव विपत्तिः,

कुलीनस्त्रियां नेद्वशी विपत्तिः संभवतीति भावः ।