पृष्ठम्:मृच्छकटिकम्.pdf/२०७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९९
अष्टमोऽङ्कः

 शकारः---भावे ! पवहणाहिं इत्थिआ पडिवशदि; ती अवलोएहि । [ भाव ! प्रवहणान्तः स्त्री प्रतिवसति; तदवलोकय ।]

 विटः--कथं स्त्री ।

अवनतशिरसः प्रयाम शीघ्रं पथि वृषभा इव वर्षताडिताक्षाः।
मम हि सदसि गौरवप्रियस्य कुलजनदर्शनकातरं हि चक्षुः ॥ १५॥

 वसन्तसेना---( सविस्मयमात्मगतम् ) कधं मम णअणाणं आआसअरो ज्जेव्व राअसालओ ! । ती संसइदम्हि मंदभाआ । एसो दाणिं मम मंदभाइणीए ऊसरक्खेत्तपडिदो विअ बीअमुट्टी णिप्फलो इध आगमणो संवुत्तो । ता किं एत्थे करइस्सं १ । [कथं मम नयनयोरायासकर एव राजश्यालः ? । तत्संशयितास्मि मन्दभाग्या । एतदिदानीं मम मन्दाभागिन्या ऊषरक्षेत्रपतित इव बीजमुष्टिर्निष्फलमिहागमनं संवृत्तम् । तत्किमत्र करिष्यामि ? ।।

 शकारः---कादले खु एशे वुड्ढचेडे पवहणं णावलोएदि । भावे । आलोएहि पवहणं । [ कातरः खल्वेष वृद्धचेटः प्रवहणं नावलोकयति । भाव ! आलोकय प्रवहणम् ।

 विटः–को दोषः ? । भवत्वेवं तावत् ।

 शकारः–कधं शिआला उड्डेंति, वाअशा वच्चेंति ? । ता जाव भावे अक्खीहिं भक्खीअदि, दंतेहिं पेक्खीअदि, ताव हग्गे पलाइश्शं ।। [कथं शृगाला उड्डीयन्ते, वायसा व्रजन्ति ? । तद्यावद्भावोऽक्षिभ्यां भक्ष्यते दन्तैः प्रेक्ष्यते, तावदहं पलायिष्ये ।।


विपरीतोक्तिः शकारवाक्यत्वात् ॥ अवनतेत्यादि । पुष्पिताग्रा । प्रयाम इति लोटौ मस (?) । गौरवमात्मनि बहुमानः ॥ १५ ॥ वुडढचेडे निन्दितश्रोतः । “वृद्धश्वोन्नेषांम्ह इत्यावाचकः । अकारणात्' इति पूर्वटीका (?) ॥ कथं शृगाला उडीयन्ते । वायसा घावन्ति ।। तद्यावद्भावोऽक्षिभ्यां भक्ष्यते दन्तैः प्रेक्ष्यते ।