पृष्ठम्:मृच्छकटिकम्.pdf/२०८

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
२००
मृच्छकटिके

 विटः-( वसन्तसेनां दृष्ट्वा, सविषादमात्मगतम्) कथमये, मृगी व्याघ्रमनुसरति ?। भोः ! कष्टम्;

शरच्चन्द्रप्रतीकाशं पुलिनान्तरशायिनम् ।
हंसी हंस परित्यज्य वायसं समुपस्थिता ॥ १६ ॥

( जनान्तिकम् ) वसन्तसेने । न युक्तमिदम्, नापि सदृशमिदम् ;

पू1र्वं मानादवज्ञाय द्रव्यार्थे जननीवशात् ।।

 वसन्तसेना---ण । [न।] ( इति शिरच्चालयति ।)

 विटः---

अशौण्डीर्यस्वभावेन वेशभावेन मन्यते ॥ १७ ॥

ननूक्तमेव मया भवतीं प्रति---‘सममुपचर भद्रे ! सुप्रियं चाप्रियं च ।।

 वसन्तसेना---पवहणविपज्जासेण आगदा । सरणागदम्हि । [प्रवहणविपर्यसेनागता । शरणागतास्मि ।]

 विटः---न भेतव्यं न भेतव्यम् ; भवतु । एनं वञ्चयामि । (शकारमुपगम्य ।) काणेलीमातः ! सत्यं राक्षस्येवात्र प्रतिवसति ।

 शकारः—भावे भावे ! जइ लक्खशी पडिवशदि, ता कीश ण तुमं मूशेदि १ अध चोले, ता कि तुमं ण भक्खिदे १ । [भाव भाव ! यदि राक्षसी प्रतिवसति; तत्कथं न त्वां मुष्णाति ? । अथ चौरः, तदा किं त्वं न भक्षितः ।।1।


शकारवाक्यत्वाद्विपरीतोक्तिः । तावदहं पलाये। अन्यथा वापन्यात् (१) । लाघवानायाति कातरे विदुःखं काकादने भीरुः (१) । शरदिति ॥ १६ ॥ पूर्वमिति । वेशभावेन (?) ॥ १७ ॥ नाम्पश इति न्यन्तात् । कर्मणि लकारः । मोक्षयति (?) । भक्खिदे भक्षितः । विपरीतोक्तिः पूर्ववत् ॥ टिप्प०-1 पूर्वं यदा दशसहस्रसुवर्णमुद्राणामलंकाराः प्रवहणं च प्रेषितं तदा गर्वाद्गाजश्यालकमिमं तिरस्कृत्य, इदानीं द्रव्यनिमित्तं जननीवशादिदैवागतासि ।

2 औदार्यस्वभावेन वेश्यात्वादागतासीति जनेन मन्यते इत्याशयः ।