पृष्ठम्:मृच्छकटिकम्.pdf/२०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८८
मृच्छकटिके

 शकारः–जइ वि हग्गे एवं भणामि, तधा वि तुह एशे आदले अहिलुह भश्टके' त्ति भणिदुं। [यद्यप्यहमेवं भणामि, तथापि तवैष आचारः ‘अधिरोह भट्टारक! इति भणितुम् ।

 विटः--आरोहतु भवान् ।

 शकारः–एशे शंपदं अहिलुहामि । पुत्तका थावलका चेडा ! पलिवत्तावेहि पवहणं । [एष सांप्रतमधरोहामि । पुत्रक स्थावरक चेट ! परिवर्तय प्रवहणम् ।

 चेटः---( परावर्य ) अहिलुहदु भट्टालके । [ अधिरोहतु भट्टारकः ।]

 शकार--( अधिरुत्यावलोक्य च शङ्कां नाटयित्वा, त्वरितमवतीर्य, विटंकण्ठेऽवलम्ब्य ) भावे भावे ! मलेशि मलेशि । पवणाधिलूढा लक्खशी चोले व पडिवशदि । ता जइ लक्खशी, तदो उमे वि मूशे । अध चोले, तदो उमे वि खज्जे । [ भाव भाव ! मृतोऽसि मृतोऽसि । प्रवहणाधिरूढा राक्षसी चौरो वा प्रतिवसति । तद्यदि राक्षसी, सदोभावपि मुषितौ । अथ चौरः तदोभावपि खादितौ ।]

 विट:---न भेतव्यम्; कुतोऽत्र वृषभयाने राक्षस्याः संचारः ।। मा नाम ते मध्याह्नार्कतापच्छिन्नदृष्टेः स्थावरकस्य सकञ्चुकां छायां दृष्ट्वा भ्रान्तिरुत्पन्ना ।

 शकारः-पुत्तका थावलका चेडा जीवेशि ? । [पुत्रक स्थावरक चेट ! जीवसि ? ।]

 चेटः---अध इं। [ अथ किम् ।]


अग्रतः प्रवहणमधिरोहामि ॥ ययप्यहमेवं ब्रवीमि, तथापि तवैष आचारः अधिरोह भट्टारक' इति भणितुम् ॥ प्रवहणे राक्षसी चौरो वा प्रतिवसति । मुश्शे खज्जे इति