पृष्ठम्:मृच्छकटिकम्.pdf/१६२

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
१५४
मृच्छकटिके

( वसन्तसेना शृङ्गारभावं नाटयन्ती चारुदत्तमालिङ्गति )

 चारुदत्तः–( स्पर्श नाटयन्प्रत्यालिङ्ग्य )

भो मेघ ! गम्भीरतरं नद त्वं तव प्रसादात्स्मरपीडितं मे ।
संस्पर्शरोमाञ्चितज़ातरागं कदम्बपुष्पत्वमुपैति गात्रम् ॥ ४७ ॥

 विदूषकः----दासीए पुत्त दुद्दिण ! अणज्जो दाणिं सि तुमं, जे अत्तभोदिं विजुआए भायावेसि । [ दास्याःपुत्र दुर्दिन ! अनार्य इदानीमसि त्वम्, यदत्रभवतीं विद्युता भीषयसि ।।

 चारुदत्तः-वयस्य ! नार्हस्युपालब्धुम्,--

वर्षशतमस्तु दुर्दिनमविरतधारं शतहृदा स्फुरतु ।
अस्मद्विधदुर्लभया यदहं प्रियया परिष्वक्तः ॥ ४८॥

अपि च, वयस्य ।।

धन्यानि तेषां खलु जीवितानि ये कामिनीनां गृहमागतानाम् ।
आर्द्राणि मेघोदकशीतलानि गात्राणि गात्रेषु परिष्वजन्ति ॥ ४९ ॥

प्रिये वसन्तसेने !

स्तम्भेषु प्रचलितवेदिसंचयान्तं
शीर्णत्वात्कथमपि धार्यते वितानम् ।
एषा च स्फुटितसुधाद्रवानुलेपा-
त्संक्लिन्ना सलिलभरेण चित्रभित्तिः ॥ ५० ॥


॥ ४५ ॥ एतैरिति । वर्णक विलेपनम् ॥ ४६ ॥ ॥ भो मेघेति ॥ ४७ ॥ वर्षशतमिति । अस्मद्विधदुर्लभया । दरिद्रस्य वेश्यावाप्त्यसंभवात् ॥ ४८ ॥ धन्यानीति ॥ ४९ ॥ स्तम्भेष्वित्यादि । प्रकृतिच्छन्दसा । वितानं टिप्प०-1 अत्र गात्रस्य कदम्बोपमा वर्षर्तावनुगुणैव; नच स्त्री-पुंसयोः सामानाधिकरण्यमेव संभोग इति वाच्यम् , एकशयनस्थितयोरपि विप्रलम्भसंभवात्; किन्तु द्वयोरपि मनोवृत्तिसांमुख्यमेव मुख्यः शृङ्गारः । स च मनोवृत्तेरनुकूलतायां संभोगः,

प्रतिकूलतायां विप्रलम्भ इति विवेकः ।