पृष्ठम्:मृच्छकटिकम्.pdf/१६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५५
पञ्चमोऽङ्कः

(ऊर्ध्वमवलोक्य ) अये इन्द्रधनुः; प्रिये ! पश्य पश्य

विद्युजिह्वेनेदं महेन्द्रचापोच्छ्रितायतभुजेन।
जलधरविवृद्धहनुना विजृम्भितमिवान्तरिक्षेण ॥ ५१ ॥

तदेहि, अभ्यन्तरमेव प्रविशावः ( इत्युत्थाय परिक्रमति )

1तालीषु तारं विटपेषु मन्द्रं शिलासु रुक्षं सलिलेषु चण्डम् ।
संगीतवीणा इव ताड्यमानास्तालानुसारेण पतन्ति धाराः ।। ५२॥

(इति निष्क्रान्ताः सर्वे )

दुर्दिनो नाम पञ्चमोऽङ्कः ।


चन्द्रातपः ॥ ५० ॥ विद्युदिति । आर्या । अनया च वेतालादिभयानकरूप- वर्णनम् ॥५१ ।

 तालीष्विति | संगीतवीणा इव धाराः ।। ५२ ॥

इति दुर्दिनो नाम पञ्चमोऽङ्कः ।

1 यथा वीणास्तत्र तत्र रागस्थाने तालानुसारेण तारं मन्द्रं रूक्षं चण्डं च स्वनन्ति तथा धारा इति भावः । तालीदलेषु जलधाराघाते महानुच्चस्वरः श्रवणप्रत्यक्ष एव । शाखासु मन्द्रं गभीरम्, रूक्ष-चण्डस्वरयोः परमभेदेऽपि शिलासु सलिलेषु च धारघाते मृदुकाठिन्यकृत आबालवृद्धप्रत्यक्ष एव ।