पृष्ठम्:मृच्छकटिकम्.pdf/१६१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५३
पञ्चमोऽङ्कः

 चारुदत्तः-----सम्यगाह भवान्,-

अमूर्हि भित्वा जलदान्तराणि पङ्कान्तराणीव मृणासूच्यः ।।
पतन्ति चन्द्रव्यसनाद्विमुक्ता दिवोऽश्रुधारा इव वारिधाराः ॥४४॥


अपि च,

धाराभिरार्यजनचित्तसुनिर्मलाभि-
श्चण्डाभिरर्जुनशरप्रति कर्कशाशभिः ।
मेघाः स्रवन्ति बलदेव1पटप्रकाशाः।
शक्रस्य मैक्तिकनिधानमिवोद्गिरन्तः॥ ४५ ॥


प्रिये ! पश्य पश्य

एतैः पिष्टत2मालवर्णकनिभैरालिप्तमम्भोधरैः
संसक्तैरुपवीजितं सुरभिभिः शीतैः प्रदोषानिलैः ।
एषाम्भोदसमागमप्रणयिनी स्वच्छन्दमभ्यागता
रक्ता कान्तमिवा3म्बरं प्रियतमा विद्युत्समालिङ्गति ।। ४६ ॥



कृते योगात् ।। क इति ।। ४३ ॥ अमूरिति ॥ ४४ ॥ धाराभिरिति टिप्प-1 बलरामवत्सदृशा इत्यर्थः । 2 वर्णकोऽस्त्री विलेपनम्' इत्यमरः । पिष्टं यत्तमालस्य वर्णकं विलेपने तमालवर्णं वा वर्णनं तत्सदृशैः, नीलविलेपनसद्दशै- र्मेघैरालिप्तं कृतकस्तूरिकाङ्गरागमिवेति भावः । प्रदोषानिलैः सन्ध्यावातैः, शीतैः सुगन्धैः, संसक्तैः सर्वतोमिलितैः, उपवीजितं संजातव्यजनवीजनमिवेत्यर्थः । आकण्ठमुत्कण्ठामन्तरा नातिस्फुरत्यकुण्ठः शृङ्गार इत्युत्कण्ठामवतारयति-अम्भोदेत्यादिना । अम्भोदानां समागमेनोद्दीपनविभावरूपेण प्रणयिनी । अत एवं स्वच्छन्दं स्वयमेव अभ्यागता, नतु प्रियेणाहूता । यथा त्वं स्वयमेवातासीति व्यङ्ग्यम् । रक्ता शोणवर्णा, पक्षेऽनुरक्ता च प्रियतमा कान्तमिव विद्युदम्बरं समालिङ्गतीत्यन्वयः । 3 अत्र ’अम्बर'शब्दगतं नपुंसकं लिङ्गं नार्थतो भासते; येन नपुंसकमालिङ्घतीति दूषणमुद्भाव्येत; ‘दाराः कलत्रं योषित्' इत्यादौ व्यभिचारात् । अयमैन्द्रीमुखं पश्य रक्तश्चुम्बति चन्द्रमाः' इत्यादौ भासते, तथापि प्रकृते न व्यङ्ग्यार्थहानिः, अपि त्वधिकचमस्कृतिरेव । तथा हि-अपुमांसमप्यम्बरं साऽऽलिङ्गति, त्वं तु सुन्दरमपि पुमांसं मामालिङ्ग रमयेत्याशयः ।