पृष्ठम्:मृच्छकटिकम्.pdf/११९

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
१११
चतुर्थोऽङ्कः

 वसन्तसेना----अहं अज्जचारुदत्तेण भणिदा--जो इमं अलंकारअं समप्पइस्सदि, तस्स तुए मदणिआ दादब्वा' । ता सो ज्जेव एदं दे देदित्ति एवं अज्जेण अवगच्छिदव्वं । [अहमार्यचारुदत्तेन भणिता--‘य इममलंकारकं समर्पयिष्यति, तस्य त्वया मदनिका दातव्या । तत्स एवैतां ते ददातीत्येवमार्येणावगन्तव्यम् ।]

 शर्विलकः--( खगतम् ) अये विज्ञातोऽहमनया । (प्रकाशम् ) साधु आर्यचारुदत्त । साधु;

गुणेष्वेव हि कर्तव्यः प्रयत्नः पुरुषैः सदा।।
गुणयुक्तो दरिद्रोऽपि नेश्वरैरगुणैः समः ॥ २२ ॥

अपि च,

गुणेषु यत्नः पुरुषेण कार्यो न किंचिदप्राप्यतमं गुणानाम् ।
गुणप्रकर्षादुडुपेन शंभोरलङ्घयमुल्लङ्घितमुत्तमा2ङ्गम् ॥ २३ ॥

 वसन्तसेना--को एत्थ पवहणिओ ? । [ कोऽत्र प्रव1हणिकः १ ।।

( प्रविश्य सप्रवहणः )

 चेटः–अज्जए ! सज्जे पवहणं । [ आर्ये ! सज्जं प्रवहणम् ।

 वसन्तसेना-हञ्जे मअणिए ! सुदिट्ठ मं करेहि । दिण्णासि । अरुह पर्वहणं । सुमरेसि मं । { चेटि मदनिके! सुदृष्टां मां कुरु । दत्तासि । आरोह प्रवहणम् । स्मरसि माम् ।

 मदनिका--(रुदती ) परिच्चित्तम्हि अज्जआए । [ परित्यक्तास्म्यार्यया । ] ( इति पादयोः पतति )


गुणेष्वेवेति ॥ २२ ॥ गुणेष्विति ॥ २३ ॥

हिप्प०-1 प्रवहणं कणींरथं वहतीति प्रवहणिकः, सारथिरित्यर्थः । 2 अलङ्घ्य-

मपि शिवस्य उत्तमाङ्गं शिर उडुपेन हिमांशुना स्वगुणैरेवोल्लङ्घितमिति भावः ।