पृष्ठम्:मृच्छकटिकम्.pdf/११८

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
११०
मृच्छकटिके

 वसन्तसेना--हञ्जे ! तस्स केरओ त्ति कधं तुमं जाणासि १ । [ चेटि! तस्य संबन्धीति कथं वं जानासि ।।]

 मदनिका-अज्जए ! अत्तणकेरअं वि ण जाणामि ?। [आयें ! आत्म- संबन्धिनमपि न जानामि ? ।]

 वसन्तसेना--( स्वगतं सशिरःकम्पं, विहस्य) जुज्जदि, ( प्रकाशम् ) पविसदु । [युज्यते, प्रविशतु ।]

 मदनिका--जं अज्जआ आणवेदि । (उपगम्य ) पविसदु सब्विलओ । [ यदार्याज्ञापयति । प्रविशतु शर्विलकः । ]

 शर्विलकः--( उपसृत्य, सवैलक्ष्यम् ) खस्ति भवत्यै ।

 वसन्तसेना-अज्ज ! वंदामि । उवविसदु अज्जो । [ आर्य ! वन्दे । उपविशत्वार्यः ।]

 शर्विलकः---सार्थवाहस्त्वां विज्ञापयति-जर्जरत्वाद्गृहस्य दूरक्ष्यमिदं भाण्डम् ; तद्गृह्यताम् । ( इति मदनिकायाः समर्प्य प्रस्थितः )

 वसन्तसेना---अज्ज ! ममावि दाव पडिसंदेसं तर्हि अज्जो णेदु । [ आर्य ! ममापि तावप्रतिसंदेशं तत्रार्यो नयतु ।

 शर्विलकः-( खगतम् ) कस्तत्र यास्यति । । ( प्रकाशम् ) कः प्रतिसंदेशः ?।। वसन्तसेना पडिच्छदु अज्जो मदणिअं । [प्रतीच्छत्वार्यो मदनिकाम् ।]

 शर्विलक-भवति ! न खल्ववगच्छम् । वसन्तसेना--अहं अवगच्छामि । [ अहमवगच्छामि।]

 शर्विलक---कथमिव !।