पृष्ठम्:मृच्छकटिकम्.pdf/११७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०९
चतुर्थोऽङ्कः

 शर्विलक–एवं कृते किं भवति ।।

 मदनिका--तुमं दावं अचोरो, सो वि अज्जो अरिणो, अज्जआए

सकं अलंकारअं उवगदं भोदि । { स्वं तावदचौरः, सोऽप्यार्योनृणः, आर्यया स्वकोऽलंकार उपगतो भवति ।]

 शर्विलकः--नन्वतिसाहसमेतत् ।।

 मदनिका--अइ ! उवणेहि, अण्णधा अदिसाहसं। [ अयि ! उपनय, अन्यथातिसाहसम् ।।

 वसन्तसेना-साहु मदणिए ! साहु । अभुजिस्सए विअ मंतिदं [ साधु मदनिके! साधु । अभुजिष्ययेव मन्त्रितम् ।]

 शर्विलकः----

मयाप्ता महती बुद्धिर्भवतीमनुगच्छता ।
निशायां नष्टचन्द्रायां दुर्लभो मार्गदर्शकः ॥ २१ ॥

 मदनिका----तेण हि तुमं इमस्सिं कामदेवगेहे मुहुत्तअं चिट्ठ, जाव अज्जआए तुह आगमणं णिवेदेमि । [ तेन हि स्वमस्मिन्कामदेवगेहे मुहूर्तकं तिष्ठ, यावदार्यायै तवागमनं निवेदयामि ।]

 शर्विलकः–एवं भवतु ।।

 मदनिका--( उपसृत्य ) अज्जए ! एसो खु चारुदत्तस्स सआसादो बम्हणो आअदो। [ आर्ये! एष खलु चारुदत्तस्य सकाशाद्बाह्मण आगतः ।] अथ निजपतित्वेनैवमाह- तुमं दावेति । इदानीं ब्राह्मणभार्यात्वेनेति भावः । मयेति ॥ २१ ॥ अत्तणकेरअं वीति चारुदत्तस्यानुचरत्वं स्वीकृत्य ब्रूते । हिप्प०.-1 यथा भार्या मन्नयति तथैव मन्नितमिति भावः । एतावत्पर्यन्तमिदं गवाक्षनिषण्या वसन्तसेनया श्रुतमनुदितं स्वगतमिति ज्ञेयम् ।