मूलमध्यमककारिका तथाच सति स्थितिभङ्गरहितस्य केवलमुत्पादस्य तथा उत पादभङ्ग- रहितायाः स्थितेः उतपादस्थितिरहितस्य च मनस्य खप्रधानभावन लक्षणत्व सिध्यति। एवं चेत् स्थितिभङ्गो उत्पादकाले न स्त इति स्थितिभङ्गरहितः उत्पादः स्थितिभङ्गराहित्येन स्वरूपेण आकाशवदेव स्यात । तथाच सति यथाकाशस्य संस्कृतलक्षणत्व न सम्भवेत तथा उत्पादस्यापि संस्कृतलक्षणत्व नैव सङ्गच्छते। एवमुत्पादभङ्ग- रहितायाश्च स्थितेरपि उत्पादभङ्गशून्यतया नित्यत्वात् आकाशतुल्यतया लक्षणत्वासम्भवः । ननु स्थितिरनित्यैव इति चेन्न उत्पादभङ्ग हितस्य अनित्यस्य असत्त्वात्, उत्पादभङ्गशून्यायाः स्थितरनित्यत्वाभ्युपगम गगनकुसुमतुल्यत्वम व तस्यास्तदानीमायातम् । एवञ्चत कथ । तस्याः लक्षणत्वयोगः । नहि वन्ध्यासुतः कस्यापि लक्षण भवितु शक्यः । एवमुत्पादस्थितिशून्यस्य अनित्यस्य वस्तुनः फलतः सत्त्वास- म्भवेन तथाविधस्य भङ्गस्यापि अनित्यत्वाभ्युपगम शशशृङ्गवदली- कत्वापत्त: न तादृशभङ्गोऽपि लक्षणतया ग्रहीतुं शक्यः अलोकत्वात । अन्यच्च दं विभावनीयम् । एतेषां पृथक्लक्षणत्वपक्षे प्रत्येकम व लक्ष्य- प्रतिपादनसमर्थमित्यवश्य खोकार्यम् । एवञ्च सति एकेनैव लक्ष्य- प्रतिपादनसम्भवे त्रयाणामुपादानमनर्थक स्यात् । अथ बुद्धिवैचित्रयात् यत्किञ्चिदुपादाय लक्षणसमन्वयसौक-थं तदिति चेत्, हन्त भोः, बालप्रलपितमिव भाषसे। एकस्योपादानसमर्था या बुद्धिः सैव एकन लक्षणेन लक्ष्य निद्धारयितुं शक्नोति । लक्ष्य-निहरणार्थ प्रवृत्तायाश्च बुद्ध : लक्ष्यनिर्धारण नैव कृतार्थत्वात् कृतकृत्यायास्तस्याः अन्यग्रहण प्रयासः कथं भवत्। एवमेकस्य ग्रहण कुव त्यपि सा वुद्धिः अन्यस्य ग्रहणाय नालमिति कृत्वा गौरवग्रस्तमतल्लक्षणत्रय कथ युक्त मन्यसे ? लक्ष्यनिर्धारणपरस्य लक्षणस्य निर्दोषतया यदि लक्ष्य- निर्वाचन सम्भव त् तदापरलक्षणानुसन्धान कथङ्का प्रक्षावतां प्रवृत्ति- गोचर भवेत् ? तस्मात् पृथक लक्षणपक्ष त्रयाणामुपादान न युक्ति- सहम्। यदि तु त्रयाणामेव सम्बन्धः सर्वत्र प्रयोजनमिति मन्यसे तथा पृथक लक्षणयुक्ति: निराधारा भवत्। तथात्व समस्तमकोभूय
पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/७०
दिखावट