सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संस्कृतपरीक्षा नाम सप्तम प्रकरणम् ४५ उत्पादाद्यास्त्रयो व्यस्ता नालं लक्षणकर्मणि । संस्कृतस्य समस्ताः स्युरेकत्र कथमेकदा ॥२।। तत्र व्यस्ता लक्षणकर्मणि न युज्यन्ते । यद्युत्पादकाले स्थिति- भङ्गो न स्यातां तदा स्थितिभङ्गरहितस्यादाकाशस्येव संस्कृतलक्षण- त्वनानुपपद्यत एवोत्पादः । अथ स्थितिकाले उत्पादभङ्गो नस्तस्तदा तद्रहितस्य स्थितिः स्यात् । उत्पादभङ्गरहितश्च पदास्त्ये नार्थोवेति नास्याविद्यमानस्य खपुष्पवत् स्थितियुज्यते। कि' च स्थितियुक्तास्य पश्चादनित्यतयापि भङ्गो न स्यात्, तहिरोधिधर्माकान्तत्वात् । अथ स्यात्, पूर्व शाश्वतो भूत्वा पश्चादशाश्वत इति । न च कपदार्थः शाश्वतश्चाशाश्वतश्च युक्त इति नोत्पादभङ्गरहितस्य स्थितिः । तथा यदि भङ्गकाले स्थित्युतपादौ न स्यातामेवमप्यनुत्पन्नस्य स्थितिरहितस्य खपुष्पस्य विनाशोऽपि नास्तीति। एवं तावदुत्पा- दादयो व्यस्ता नाल लक्षणकमणि । नाल न पर्याप्ता इत्यर्थः । इदानों समस्ता अपि न युज्यन्त इत्याह- समस्ताः स्युरेकत्र कथम कदा एकत्र पदार्थ, एकस्मिन् काले। परस्परविरुद्धत्वाद्रागवैराग्यवदालोका- न्धकारवहा न युज्यन्त इत्यभिप्रायः। यस्मिन्नेव क्षण पदार्थो जायते तस्मिन्न व तिष्ठति विनश्यति चेति कः सचेताः प्रतिपद्यते। तस्मात समस्तानामप्युत्पादादीनां संस्कृतस्य लक्षणकर्म णि नास्ति सामर्थ्यम् । मञ्ज व्याख्या ॥ अन्यधापि उत्पादादीनां लक्षणमपाकर्तुमारभते । तथाहि उत पादादयः कि प्रत्येक पृथक् पृथक् लक्षण मिलित वा सर्व लक्षणमेकं भवेत्। यदि तु प्रत्येकमेव पृथक् लक्षणं स्यात्तदा उत्पादः स्थितिभङ्गश्च अन्यनिरपेक्षभावेन प्रत्येकमेव खय' लक्षणमित्यायातम् ।