संस्कृतपरीक्षा नाम सप्तम प्रकरणम् चीनम्, मानसविज्ञानस्य सर्व जनानुभवसिद्धत्वात्। तथाहि सिद्धे च मानसविज्ञान मानसविज्ञानं सालम्बनं विज्ञानत्वात् इत्याद्यनुमानेन विज्ञानस्य सालम्बनत्व सिध्यति । साधिपतित्वमपि तथैवानुमानेन सिध्यति । दृश्यते च चाक्षुषादिविज्ञाने घटादीनामालम्बनत्व चक्षु- षश्चाधिपतित्वमिति मानसविज्ञानस्यापि किञ्चिदालम्बनं साधिपतित्वञ्च अवश्यमेव युक्तम् । एवञ्च अतीतानागतधर्माणामसत्त्वे मानसविज्ञानानु- पपत्त्या तदानीं धर्म सत्यमभुपेतव्यम् । नन्वेव कालिकत्वे धर्माणां नित्यत्वमेव ति चेन्न। नहि त्र कालिकमेव नित्यत्वनियामकम् किन्तु उत पादविनाशराहित्यमेव तत । त्रै कालिकत्व ऽपि जातिजरा- मरणरुपसस्काराश्रयत्वात संस्कृताऽनित्याएव । स्थितिश्चान अन्यथाभावात्मिका स्थित्यन्यथात्वमपौति भगवहचनादवगम्यते । अत्रायमाभिप्रायः । सर्व देव स्थितानां धर्माणां प्रथमक्षणे उत्पाद नाम सस्कारः जातिरित्यनेन च यस्य परिभाषा। हितीवक्षणे जरा नाम संस्कारः। सैव स्थितिः जरा च टतीयक्षण वृत्ति-विनाशार्थ समुप- योगिनो काचिदवस्था, या च जायतेऽस्ति वर्धते इति यास्कपठितषड़- भावविकार अपक्षय इति निर्दिष्टा । विनाशाच मरणमिति अभि- मतम्। सर्व दैवावस्थिनानां धर्माणां क्रमेण जातिजरामरणरुपा सस्कारा अविरलमुपजायन्त । तेन च धर्माणां मूलस्वरुपावस्थिता- वपि आकतिगुणादिवरुपं भावमेकं परित्यज्य भावान्तरापत्तिरेव वस्तूनां संस्कार इति केचित । अपर तु जातिजरामरणानि सह व प्रवृत्तान्यपि समुदाचारवशन उत्पनीयमित्यादिव्यवहारभाग्भवति धर्मः। तथातीतानागतवर्तमानत्वान्यपि युगपदेव विद्यमानान्यपि समुपदेश- वशात तत्तापदेशभाजनतां लभते । तथाच मूलखरुपापरावृत्तावपि प्रकारान्तरप्राप्तिरव अन्यथाभाव इति। अन्य तु यथा एकैव स्त्री वरुपाभेदेऽपि सम्बन्धिभेदात माटटुहिटपत्नीत्वरुप सम्बन्धान्तरभाजिनी सती तत्तवापदेशविषयतां धत्त तथैव अभिन्नरूपी धर्मः धर्मान्तरापेक्षया प्रतीतादिव्यवहारं भजते । व्यवहारहेतुश्च तत्तत सम्बन्धभेदः । याऽसौ व्यवहारभेदकारणीभूतातीत्वादिप्राप्तिः सा एव अन्यथाभाव
पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/६१
दिखावट