३६ मूलमध्यमककारिका गम्यते । नहि जायामानं वर्तमानं किमप्य तादृश यस्य नातीताध्व- लाभः। यच्च जायते तस्य तत्कालावच्छेदेन स्थितिरपि स्यादेव। अन्यथा तस्य सत्त्वायोगेन अनुभवस्पर्थासम्भवात्। सबषाच्च वस्तूनां आदौ जन्म ततो स्थिति: ततो विनाशः इति साधारणी पद्धतिः । वस्तु च तत्र स्थितमेव तिष्ठति जातिजरामरणरूपेण उत्पादस्थितिविनाशः तेषां क्रमिकं संकारी भवतीति सर्बास्तित्ववादिनां सिद्धान्तः। ननु वर्तमानकालावच्छ देन धर्माणामभुपगम्यमानत्व न सत्त्वाङ्गीकारऽपि अतीतानागतकालीन खत्वमप्रामाणिकमिति से लक्षण संस्कृतानां कथ- मुपपद्यते इति चेत् । अत्रोच्यते, सूत्रप्रमाणात् युक्तितश्च तसिद्धिः । तथा च सूत्र 'रुपमतीत्यानागतं कः पुनर्वादः प्रतुत्पन्नस्य। एवं दर्शी श्रुतवान् अार्य श्रावक अतीत रुपे अनपक्षो भवति। अनागतं रूपं नाभिनन्दति प्रतुत्पन्नस्य रूपस्य निर्वे दे विरागाय निरोधाय प्रतिपन्नी भवति । (सयुक्तागम, ३१४ सूत्र ; अभिधर्मकोष ५।२५ स्फुटार्थी टीका) अस्यायमाशयः, अतीतानागतकालयोरपि धर्माणामनित्यतादर्शनात् वर्तमानऽपि तेषामनित्यतावगम्यते। एवं दर्शिनार्यश्रावकेन अतीत- धर्मः नापेक्षाते। अनागतोधर्मो नाभिनन्दप्रते। प्रतुत्पन्नधर्म- निरोधश्च चेष्ट्यते । यदि हि खरशृङ्गादिवत् अतीतानागतधर्माणामसत्त्व- मेव स्यात् तदातत्र अनपेक्षायाः अनभिनन्दनस्य च नावकाशः । अनभिलषितत्वच सत्त्वाश्रयं नाम असता नाभिलाषानर्थक्यात्। अतः अतीतानागतधर्माणामनभिलषितत्वस्य व सूत्रोता तया तस्य सत्त्व व सिद्धम्। युक्तिश्चात्र इत्यम् । अतोतानागतविषयं मानसविज्ञानं खलु प्रसिद्धमस्ति लोके । तत्र च निरालम्बनविज्ञानासिद्ध: मानसविज्ञाना- लम्बन तयव अतीतानागतधर्माणां सत्त्वमायाति । 'परमामनन्तरातीतविज्ञानं यदि तम्मनः । षष्ठाश्रयप्रसिद्धार्थ धातवोऽष्टादश स्मृताः ॥ (कोष १।१७) इति वचनात् अतीतविज्ञानस्यैव मनः संज्ञा लभ्यते। अतीतधर्माणामसत्त्वं विषयाभावन अतीतविज्ञानात्मकमनसोऽपि असत्त्व न अधिपति- राहित्यात् निराश्रयं मनोविज्ञानं न कथमपि सम्भवति, तच्च न समी- - यतः
पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/६०
दिखावट