सामग्री पर जाएँ

पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सस्कृतपरीक्षा नाम सप्तम प्रकरणम् ३५ प्रकारः स्कन्धादीनां व्यवस्थापन सम्भाव्येत तेषां सर्वेषामेव निराकरण- मुचितमन्यथा अनिराकतं मार्गमाश्रित्य केषाञ्चिन्मनसि स्कन्धादीनां याथार्थ्यसम्भावना पदं विदधातु शक्नुयात्। ग्रन्थकतो नयनतापि वा शशात। तस्मात् सन्भावितानां सर्वेषामेव निराकतत्वात् प्रकरण- मिदमारझ्यमिति युत्तामेव । तत्र वादिनां पुनरयमाशयः । इह खलु जगति समुपलभ्यमानानां वस्तूनां नित्यानित्यभेदेन विधा विभागः संलक्ष्यते । तत्र अतीतवर्तमानानागताध्वनि प्रविष्ठानां उत्पादस्थिति- संहारलक्षितानां स्कन्धायतनधातुखरुपानां संस्कृतसंज्ञितानामनित्य- त्वम्। एतविपरीतस्वरूपानां आकाशप्रतिसंख्यानिरोधानां पुनर- संस्कृतपरिभाषाभाषितानां नित्यत्वमिति स्थितिः। तथाचोक्त' 'त्रीणि इमानि भिक्षव: कथावस्तुनि अचतुर्थानि अपञ्चमानि यान्याश्रित्य आUः कथाः कथयन्तः कथयन्ति । कतमानि त्रीणि । अतीतं कथावस्तु, अनागतं कथावस्तु। प्रतुत्पन्न' कथावस्त्विति । (कोशस्थान ११७ स्कुटाथा टीका)। अत्र च वर्णात्मकस्य शब्दस्य कथावन निर्देशः । तस्याः वस्तु विषय इति यावत्। सर्वेषां नाम वस्तूनां किश्चिन्नाम- युक्तत्वनियमात् नामासत्त्व वस्तुनः प्रमाणासम्भवाच्च कथावस्तु शब्देन विषयः व्यपः दिश्यते इति तात्पर्य्य म । अन्यत्रापि च व्यवहृतं तथा- गतेन त्रीणि इमानि भिक्षवः संस्कतस्य संस्कतलक्षणानि। संस्कृतस्य भिक्षवः उत्प्रादोऽपि प्रत्यायते। व्ययोऽपि स्थित्यन्यथात्वमपोति । अत्रायमभिप्रायः । धर्माः खलु हिविधाः संस्कृताः । तत्र हेतुप्रत्यय-जन्या सस्कृताः रूपादिपञ्चस्कन्धादयः। तथाचीत ते पुन: संस्कृताः धर्माः रूपादिस्कन्धपञ्चकम'। (११७ अभिधर्म )। असतां वनध्यातनया- दीनां जन्माद्यसम्भवात् जन्य त्वेन प्रतीयमानानां संस्कृतानां सुतरामेव सत्त्वमङ्गीकर्तव्यम् । जायन्ते च रूपादयः । अतः सत्त्वमपि तेषामव्याहतम्। एवं जन्यत्वस्य बर्तमानकालघटिततया वर्तमानत्व- वर्तमानस्य च अतीतानागतसापेक्षत्वेन प्रविष्टत्वमप्यायातम्। अनागताध्वानं परित्यज्यैव वर्तमानाध्व- प्रवेशः सम्भवति । तथा वर्तमानस्य च अतीताध्वप्रवेशः पुनरव- मपि। तस्य त्राव