३४ मूलमध्यमककारिका सस्कृत-परीक्षा नाम सप्तम प्रकरणम् । अत्राह, विद्यते एव सस्कृतस्वभावाः स्कन्धायतनधातवः उत्- पादादिसस्कृतलक्षणसद्भावात् । उक्त हि भगवता-त्रोणोमानि भिक्षवः संस्कृतस्य संस्कृतलक्षणानि। संस्कृतस्य भिक्षव उत्पादोऽपि प्रज्ञायते, व्ययोपि, स्थित्यन्यथात्वमपि इति । न चाविद्यमानस्य खरविषाणस्य व जात्यादिलक्षणमस्ति । तस्मात् संस्कृतलक्षणोपदेशाविद्यन्त एव स्कन्घाय- तनधातवः इति ; उच्यते, स्युः स्कन्धायतनधायवः संस्कृतस्वभावास्ता- 3 वकेन मर्तन यदि जात्यादिलक्षणमेव भवेत् । इहायमुत्पादः संस्कृत- लक्षणवे नेष्यमाणः संस्कृतो वा तल्लक्षणव नेष्यतेऽसंस्कतो वा। तत्त्र, यदि संस्कृत उत्पादस्तत्र युक्ता विलक्षणी । त्रयाणां लक्षाणानां समाहारस्त्रिलक्षणो। इयं चोत्पादस्थितिभङ्ग- समाहारस्वभावा सर्वस स्वताव्यभिचारिणीति कत्त्वा। यद्यत पादः संस्कृतः इति परिकल्पाते तदोत्पादोपि विलक्षणी प्रसज्यते। ततश्च रुपादिलक्ष्यत्वमुत्पादस्य स्यान्न संस्कृतलक्षणत्वम । अथोत्पादोऽपि त्रिलक्षणो नेष्यते। तदा विलक्षणीरहितवादाकाशवत् संस्कृत- लक्षणत्वमस्यावहीयत इत्याह- अथासंस्कृत उत्पादः कथं संस्कृतलक्षणम् ||१|| इति। न तत् संस्कृतलक्षणमित्यभिप्रायः ॥ मञ्जु व्याख्या ले शालम्बन स्कन्धायतनधातूनां पराभिमतं सत्त्व' रागरक्तपरीक्षा- मुखेन सम्यक निराकतम् । साम्प्रतं तु वादिनः केचित, पुनरण्यर्थ व स्कन्धादीनां सत्त्व प्रतिपादयितुकामा समुत्तिष्ठन्त । तेषामभिमतमपा- कत्तुं प्रकरणमिदमारभ्यते । ननु रागरक्तपरीक्षयव स्कन्धादीनां तत्त्वतो निराकरणात् किमर्थं पुनरयमारम्भ इति चेन्न । .. यावद्धिः
पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/५८
दिखावट