( १३)) तथाच अपितु अस्मिन् च माध्धमकदर्शने शून्यमेव तत्त्वमिति न कुत्रचिदपि स्पष्टतः समुल्लिखितम् । तथाविधशून्यत्वाङ्गीकारऽपि तस्यापि सदसद- विचारसमाकान्ततया प्रतिपक्षगतत्वापत्तेः । तस्मात् पदार्थतत्वनिरुपण- कामैर्दार्शनिकैः यां यां रीतिमाश्रित्य खाभिमतं तत्त्व निर्धारितं दोष- दुष्टतया तासां रीतीनां न तादृशरीतिनिस्याद्य तत्तदभिप्रेततत्त्वमित्येव वक्तव्यम्। तस्मादेव च खपक्षस्थापनाहीनतया वैतण्डिकवख्यातिः माध्यमकानाम्। तस्मात् परिशोलितदार्शनिकन्दोद्भावितयुक्ति- निकराणां विविधदोषदूषिततया च तादशी युक्तिं परित्यजतां यत्- किञ्चिदस्तु तत्त्व न निर्धारणासम्भवात् वादिवारणकेशरिणां माध्य मकानां किमपि वस्तुत्वं नास्ति इत्येवं सिद्धान्तः सङ्गच्छते । न विधिमुखेन माध्यमकानां स्ववक्तव्यप्रकाशनं, निषेध- मुखेनैव इति। अहतवेदान्तमतऽपि च 'अथातो आदेशः नेति नेति' इत्यादिश्रुतिभिः स्वतत्त्वव्यवस्थापनात् तन्मतसिद्धस्य ब्रह्मणश्चापि यतकिञ्चिज्ञाना- गोचरतया वस्तुतः इदमित्यनेन ज्ञातुमशक्यत्वात् माध्धमिकमत- साम्यमेव तत्रेति केषाञ्चित् यन्मतं तदपि न चारु, अहीतवेदान्तस्य प्रतिपाद्य यद्ब्रह्म तत् 'इदमित्यनेन विधितो निर्देष्टुं यद्यपि न शक्यते तथापि श्रुत्येकप्रमाणगम्यत्वात् तस्य सच्चिदानन्दमयत्वमेव स्पष्टतः प्रतिपाद्यत, नैतादृशं माध्धमकानां तत्त्वमिति महान् खलु प्रभेदः । अन्ते च एतनिवेदनमस्माकं यत् माध्यमककारिकायाः प्रथमतः पञ्चमाध्यायपर्यन्तं केवलं कारिकानुगताभ्यां आगलवणभाषामयाभ्यामनु वादाभ्यां सङ्गतं प्रागेव तत्र भवता श्रीहेरम्वनाथ चट्टोपाध्धायेन प्रकाशितम्। तत सुहृद्दरण तेन सततमनुप्रेरितचित्तवृत्तिना तदीयादेव परमाग्रहात् षष्ठाध्धायादारभ्य मञ्ज व्याख्यानामिकया टोकया समलङ्क, तमिदं कत्तुं मे मनः समुत्सुकमभूत्। तादृश- प्रचेष्टायाः एव प्रथम फलमिदं विदुषां पुरतः सविनयमुपस्थाप्यते । दुरुहबादशास्त्रमहारण्ये यद्यपि प्रवेशनसामर्थ्य बुद्धिमान्द्यात् मे नास्ति तथापि पाचार्यधर्मकोतिप्रभृतीनां महामतीनां तत्तद्ग्रन्यव्याख्या-
पृष्ठम्:मूलमध्यम-कारिका (६-७ प्रकरणे).djvu/२१
दिखावट